SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २६० ॥ ॥ २६१ ।। ॥ २६२॥ ॥ २६३॥ ।। २६४ ॥ ॥ २६५ ॥ येपि विच्छिन्नमूलत्वाद्धर्मज्ञत्वे हते सति । सर्वज्ञान् पुरुषानाहुः तैः कृतं तुषकण्डनम् क्व च बुद्धादयो माः क्व च देवोत्तमं त्रयम् । देवा यदि च सर्वज्ञा बुद्धादेर्मानुषस्य किम् उपदेशो हि बुद्धादेरन्यथाऽप्युपपद्यते । स्वप्नादिदृष्टव्यामोहाद्वेदाद्वा वितथश्रुतात् यद्यसौ वेदमूल: स्यादिवादिभ्य एव तम्। उपदेशं प्रयच्छेयुर्यथा मन्वादयस्तथा उच्यते तदभावोपि न प्रमाणात्कुतोपि वः । आश्रयासिद्धता नापि शब्दे धर्मिणि युज्यते सर्वज्ञवीतरागोक्तमाचारादिवचः स्फुटम् । तदुक्तार्थाविसंवादात्प्रत्यक्षेणैव कुत्रचित् एकत्र दृष्टसंवादं सर्वत्रापि तथेष्यते । नान्यन्निमित्तमत्रास्ति तद्विसंवादकल्पने अनुमानेपि नैव स्यान्निश्चयः साध्यधर्मिणि । यदि नामैकदा दृष्टः सर्वत्रापि कुतो गतिः अविनाभावसम्बन्धनिश्चयादनुमा प्रमा । आगमे त्वविनाभाव निश्चय: केन वो ननु समानमेतदन्यत्र सममस्तु द्वयं ततः । सर्वत्रामानमध्यक्षं योकत्रान्यथा क्वचित् तदुत्पत्त्याऽविनाभावो वाच्यवाचकतेह च। शब्दार्थयोरसम्बन्धे कथं सापि समं द्वये धर्मज्ञत्वनिषेधोपि भवतामनिबन्धनः । प्रत्यक्षादेरिहावृत्तिः पुरस्तादुपपादिता ॥ २६६ ॥ ।। २६७ ॥ ॥ २६८ ॥ ॥ २६९ ॥ ।। २७० ॥ ॥ २७१ ।। 35७ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy