________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २१२ ॥
॥ २१३ ॥
॥ २१४ ॥
॥ २१५ ॥
॥ २१६ ॥
॥ २१७॥
बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता अथानुरूपयत्नेन सम्यगन्वेषणे कृते । मूलाभावान विज्ञानं भवेद्बाधकबाधकम् ततो निरपवादत्वात् तेनैवाद्यं बलीयसा । बाध्यते तेन तस्यैव प्रमाणत्वमपोद्यते एवं परीक्षकज्ञानत्रितयं नातिवर्त्तते । ततश्च जातबाधेन नाशङ्कयं बाधकान्तरम् यद्येवमनवस्थैषा ममाप्येवं न युज्यते । समानन्यायमारूढावावां हन्ताविशेषतः एकार्थमथ भिन्नार्थं प्रमाणत्वावधारकम् । एकार्थमप्रमाणं तु गृहीतग्रहणादपि भिन्नार्थं यदि विज्ञानमन्यदन्यस्य साधकम् । द्विचन्द्रादिधियोप्येवमस्तु तारादिगोचरम् कश्चायं हन्त संवादस्तत्प्राप्यार्थक्रियामतिः । श्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः पूर्वज्ञानममानं किं प्रमाणं केन चोत्तरम् । स्वसन्ततिसमुत्थं वा सन्तानान्तरवर्ति वा न चान्यदीयविज्ञानमसिद्धं साध्यसाधकम्। प्रथमोत्तरयोः स्वस्य चेतसोः किं विशिष्यते उच्यते संशयज्ञानं विपर्यासानुषङ्गि वा । मन्ये न जातु वो ज्ञानं तेनैवमभिधीयते तत्रापूर्वार्थविज्ञानं निश्चितं वदता त्वया । परतो निश्चयेप्यत्र नानवस्थेति साधितम्
॥ २१८ ॥
॥ २१९ ॥
|| २२० ॥
।। २२१ ॥
॥ २२२ ॥
॥ २२३॥
353
For Private And Personal Use Only