SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३२ ॥ ॥ ३४॥ ॥ ३५ ॥ ॥३६॥ ॥ ३७ ।। कपालघटयोरैक्यं भ्रान्त्या मन्येत किं न वः । सारूप्यमस्य मानं तु वचनं व्याहतं न किम् तादृशस्याविनाभावं तादृशेनापि कुत्रचित् । अन्वयव्यतिरेकाभ्यां प्रत्यक्षानुपलम्भतः निश्चित्य सर्वदैवायमस्याभावे न जातुचित् । कुत्रापि सम्भवत्येवं किं न जायेत निश्चयः एष एव कमो ज्ञेयः सर्वेष्वपि च हेतुषु । विपर्ययेषु बाधापि कुत्रचित्सम्प्रदर्श्यते कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् अन्वयव्यतिरेकाभ्यां चेद्धेतुफलतागमः । तत एवाविनाभावनिश्चयोपि तथास्तु वः वृक्षाम्रयोस्तु तादात्म्यमन्वयव्यतिरेकतः । विपर्ययेऽथ बाधातोऽविनाभावस्तथा न किम् पक्षकदेशता हेतोवैफल्यं साधनस्य वा। व्यावृत्तेर्वस्तुधर्मत्वे सा सत्यथ न साधनम् किञ्चैकज्ञानसंसर्गश्चक्षुषोऽन्यत्र नास्ति सः । कारणानुपलम्भादेर्व्यपदेशो न वार्यते कार्यहेतोविरुद्धोपि न भिन्नस्तव कुत्रचित् । निषेधोपि विधिश्चैव वृथा भेदेन शासनम् संयोगस्याविशेषेण वह्निर्धूमं हि साधयेत् । समवायनिमित्तोपि नानवस्थाप्रसङ्गतः अविनाभाव एवैकः प्रमाणेन विनिश्चितः । निमित्तमनुमानस्य न हेतुफलतादयः ॥ ३८ ॥ ॥ ३९ ॥ ॥ ४० ॥ ॥४१॥ ॥ ४२ ॥ ॥४३॥ 3४८ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy