SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥२३॥ ॥ २४॥ ॥ २५ ॥ अर्थक्रियासमर्थेऽर्थे वृत्तिकृद्यत्तदर्थिनः । विशदज्ञानमध्यक्षमक्षजं व्यवहारतः स्वसाध्येनाविनाभावनिश्चये क्वापि निश्चितः । हेतुः परोक्षसंवित्तेरनुमानार्थमिष्यते अय:शलाकाकल्पा हि भेदा एव हि केवला:। अतद्रूपपरावृत्तिस्तुच्छा याप्यभिधीयते नाविनाभावसम्बन्धः सोऽन्वयव्यतिरेकतः । न चानुयायिनो भेदा नानुमानमतोस्ति वः एकत्वाध्यवसायस्य हेतवः केचिदेव हि। इन्द्रियादीव भेदेपि स्वभावात्तत्र सङ्गत्तम् सर्वेषां स स्वभावोस्ति तेषामेकत्वमागतम् । स्वभावभेदो भेदस्य निमित्तं तत्र नास्ति सः वस्तुरूपा च भिन्ना च नित्या व्यापितया स्थिता । नाविनाभावसम्बन्धो युक्तोऽत्राव्यतिरेकत: व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् । प्रागासीन च तद्देशे सा तया सङ्गता कथम् व्यक्तिनाशेन चेन्नष्टा गता देशान्तरं न च । तच्छून्ये न स्थिता देशे सा जाति:क्वेति कथ्यताम् उभानुभयपक्षस्तु विरोधादेव वारितः । कस्य केनाविनाभावो नानुमानमतस्तव द्वि:स्वभावास्ततो भेदाः समानेतररूपिणः । अन्वयो व्यतिरेको वा तन्निमित्तो न दुष्यति पूर्वनाशेऽपरोत्पादे सादृश्याद् भ्रान्तचेतसः । एकत्वमभिमन्यन्ते क्षणिकत्वेपि वस्तुषु ॥ २६॥ ॥ २७॥ ॥ २८ ॥ ॥ २९ ॥ ॥३०॥ 3४७ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy