SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्वर्गापवर्गदो द्रव्यस्तवोऽत्रापि सुखावहः । हेतुश्चित्तप्रसत्तेस्तत् कर्तव्यो गृहिणा सदा भवेद् विरतिरप्यस्य यथाशक्ति पुनर्यदि । तत: प्रक्षरितः सिंहः कर्मनिर्मथनं प्रति श्रावको बहुकर्माऽपि पूजाद्यैः शुभभावतः । दलयित्वाऽखिलं कर्म शिवमाप्नोति सत्वरम् येनाज्ञा यावदाराद्धा सतावल्लभते सुखम् । यावद् विराधिता येन तावद् दुःखं लभेत सः सदा तत्पालने लीनैः परमात्मात्मनात्मनि । सम्यक् स ज्ञायते ज्ञातो मोक्षं च कुरुते प्रभुः बुद्धो वा यदि वा विष्णुर्यद्वा ब्रह्माथवेश्वरः । उच्यतां स जिनेन्द्रो वा नार्थभेदस्तथापि हि ममैव देवो देवः स्यात् तव नैवेति केवलम् । मत्सरस्फूर्जितं सर्वमज्ञानानां विजृम्भितम् यथावस्थितविज्ञाततत्स्वरूपास्तु किं क्वचित् । विवदन्ते महात्मानस्तत्त्वविश्रान्तदृष्टयः स्वरूपं वीतरागत्वं पुनस्तस्य न रागिता । रागो यद्यत्र तत्रान्ये दोषा द्वेषादयो ध्रुवम् तैर्दोषैर्दूषितो देवः कथं भवितुमर्हति । इत्थं माध्यस्थ्यमास्थाय तत्त्वबुद्ध्याऽवधार्यताम् यद्वा रागादिभिर्दोषैः सर्वसंक्लेशकारकैः । दूषितेन शुभेनाऽपि देवेनैव हि तेन किम् वीतरागं यतो ध्यायन् वीतरागो भवेद् भवी । इलिका भ्रमरीभीता ध्यायन्ती भ्रमरी यथा ३१० For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ।। ३५ ।। ॥ ३६ ॥ ॥ ३७ ॥ ।। ३८ ।। ॥ ३९ ॥ 1180 11 ॥ ४१ ॥ ॥ ४२ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy