SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ।। आकाशवदरूपोऽसौ चिद्रपो नीरुजः शिवः । सिद्धिक्षेत्रगतोऽनन्तो नित्यः शं परमश्नुते येनैवाराधितो भावात् तस्यासौ कुरुते शिवम् । सर्वजन्तुसमस्यास्य न परात्मविभागिता कृतकृत्योऽयमाराध्यः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्त्तव्यं स्फटिकोपमम् ज्ञानदर्शनशीलानि पोषणीयानि सर्वदा । रागद्वेषादयो दोषा हन्तव्याश्च क्षणे क्षणे एतावत्येव तस्याज्ञा कर्मद्रुमकुठारिका । समस्तद्वादशाङ्गार्थसारभूताऽतिदुर्लभा विश्वस्य वत्सलेनापि त्रैलोक्यप्रभुणाऽपि च । साक्षाद् विहरमाणेन श्रीवीरेण तदा किल त एव रक्षिता दु:खभैरवाद् भवसागरात् । इयं यैः स्वीकृता भक्तिनिभरैरभयादिभिः यैस्तु पापभराक्रान्तैः कालशौकरिकादिभिः । न स्वीकृता भवाम्भोधौ ते भ्रमिष्यन्ति दुःखिताः सर्वजन्तुहिताऽऽज्ञैवाज्ञैव मोक्षकपद्धतिः । चरिताऽऽज्ञैव चारित्रमाज्ञैव भवभञ्जनी इयं तु ध्यानयोगेन भावसारस्तुतिस्तवैः । पूजादिभिः सुचारित्रचर्यया पालिता भवेत् आराधितोऽस्त्वसौ भावस्तवेन व्रतचर्यया । तस्य पूजादिना द्रव्यस्तवेन तु सरागता चिन्तामण्यादिकल्पस्य स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् कल्याणाय तदथिनाम् ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ || ३० ॥ 300 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy