SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अतिकोटिः समाः सम्यक्, समाधीन् समुपासताम् । नार्हदाज्ञां विना यान्ति, तथापि शमिनः शिवम् > न दानेनाऽनिदानेन न शीलैः परिशीलितैः । न शस्याभिस्तपस्याभिः, अजैनानां परं पदम् भास्वता वासर इव, पूर्णिमेवाऽमृतांशुना । सुभिक्षमिव मेघेन, जिनेनैवाऽव्ययं महः अक्षायत्तं यथा द्यूतं, मेघाधीना यथा कृषिः । तथा शिवपुरे वासो, जिनध्यानवशंवदः सुलभास्त्रिजगल्लक्ष्म्यः, सुलभाः सिद्धयोऽष्ट ताः । जिनांहिनीरजरज :- कणिकास्त्वतिदुर्लभाः Acharya Shri Kailassagarsuri Gyanmandir अहो ! कष्टमहो । कष्टं, जिनं प्राप्यापि यज्जनाः । केचिन्मिथ्यादृशो बाढं, दिनेशमिव कौशिका : जिन एव महादेव:, स्वयम्भूः पुरुषोत्तमः । परात्मा सुगतोऽलक्ष्यो, भूर्भुव: स्वस्त्रये (यी )श्वरः गुण्यगोचरा संज्ञा, बुद्धेशानादिषु स्थिता । या लोकोत्तरसत्त्वोत्था, सा सर्वाऽपि परं जिने रोहणारिवादाय, जिनेन्द्रात्परमात्मनः । नानाऽभिधानरत्नानि विदग्धैर्व्यवहारिभिः सुवर्णभूषणान्याऽऽशु, कृत्वा स्वस्वमतेष्वथ । तत्तद्देवेष्वाहितानि कालात् तन्नामतामगुः अमृतानि यथाब्दस्य, तडागादिषु पाततः । तज्जन्मानि जनाः, प्राहुः, नागान्येवं तथार्हतः लोकाग्रमधिरूढस्य, निलीनानि हरादिषु । तेषां सत्कानि गीयन्ते, लोकैः प्रायो बहिर्मुखैः २८३ For Private And Personal Use Only ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६ ॥ ।। ३७ ।। 11 32 11
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy