SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हूहूगीतैरपि सुधा - रसैर्मन्दारसौरभैः । दिव्यतल्पसुखस्पशैः, सुरीरूपैर्न ये हताः तत् किं ते तवो यद्वा, शिशवो यदि वा मृगाः । न ते न ते न ते किन्तु, मुनयस्ते निरञ्जनाः 'णं' कारोऽयं भणत्येवं, त्रिरेखो बिन्दुशेखरः । गुप्तित्रये लब्धरेखाः, सद्वृत्ताः स्युर्महर्षयः नवभेदजीवरक्षा-सुधाकुण्डसमाकृतिः । दत्तां नवाक्षरीयं में, धर्मे भावं नवं नवम् षष्ठः प्रकाशः । एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां मुख्यं भवति मङ्गलम् समितिप्रयतः सम्यग्, गुप्तित्रयपवित्रितः । अमुं पञ्चनमस्कारं, यः स्मरत्युपवैणवम् शत्रुर्मित्रायते चित्रं, विषमप्यमृतायते । अशरण्याऽप्यरण्यानी, तस्य वासगृहायते ग्रहाः सानुग्रहास्तस्य, तस्कराश्च यशस्कराः । समस्तं दुर्निमित्ताद्यं, अपि स्वस्तिफलेग्रहि न मन्त्रतन्त्रयन्त्राद्याः, तं प्रति प्रभविष्णवः । सर्वापि शाकिनी द्रोह - जननी जननीव न व्यालास्तस्य मृणालन्ति, गुञ्जापुञ्जन्ति वह्नयः । मृगेन्द्रा मृगधूर्त्तन्ति, मृगन्ति च मतङ्गजाः तस्य रक्षोऽपि रक्षायै, भूतवर्गोऽपि भूतये । प्रेतोऽपि प्रीतये प्रायः, चेटत्वायैव चेटकः ૨૦૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३९ ॥ ॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥ ॥ १ ॥ ॥ २ ॥ || 3 || 118 11 114 11 ॥ ६ ॥ 119 11
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy