SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संज्ञाकुलेश्याविकथाः, चर्चिका इव चापलम् । यस्याऽन्तर्धाम कुर्वन्ति, स एकाकी कथं भवेत् ? शाकिनीवदविरति - संज्ञा नाट्यप्रिया सदा । ग्रासाय यतते यस्य, स एकाकी कथं भवेत् ? पञ्चाग्निवदसन्तुष्टं, यस्येन्द्रियकुटुम्बकम् । देहं दहत्यसन्देहं स एकाकी कथं भवेत् ? दायादा इव दुर्दान्ताः, कषायाः क्षणमप्यहो । यद्विग्रहं न मुञ्चन्ति कथं तस्यैकतासुखम् ? स्वमनोवाक्तनूत्थाना:, कुव्यापाराः कुपुत्रवत् । भ्रंशाय यस्य यस्यन्ति, कथं तस्यैकतासुखम् ? यस्य प्रमादमिथ्यात्व - रागाद्याश्छलवीक्षिणः । कुप्रातिवेश्मिकायन्ते, कथं तस्यैकतासुखम् ? य एभिरुज्झितः सम्यक्, सजनेऽपि स एककः । जनाऽऽपूर्णेऽपि नगरे, यथा वैदेशिकः पुमान् एभिस्तु सहितो योगी, मुधैकाकित्वमश्नुते । aण्ठः शठश्चरचौर, किमु भ्राम्यति नैककः ? क्षीरं क्षीरं नीरं नीरं, दीपो दीपं सुधा सुधाम् । यथा सङ्गत्य(यं) लभते, तथैकत्वं मुनिर्मुनिम् पुण्यपापक्षयान्मुक्ते, केवले परमात्मनि । अनाहारतया नित्यं सत्यमैक्यं प्रतिष्ठितम् यद्वा श्रुतेऽत्र नाऽनुज्ञा, निषेधो वाऽस्ति सर्वथा । सम्यगायव्ययौ ज्ञात्वा यतन्ते यतिसत्तमाः , हूयते न दीयते न, न तप्यते न जप्यते । निष्क्रियैः साधुभिरहो, साध्यते परमं पदम् Acharya Shri Kailassagarsuri Gyanmandir ૨૦૫ For Private And Personal Use Only ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६ ॥ ।। ३७ ।। || 32 ||
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy