SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अज्ञातकविकृतम् ॥जैनविहारशतकम् ।। उद्यन्माणिक्यमालाबहलतरमिलन्निर्यदङ्क्रपूरध्वस्तध्वान्तप्रतानाप्रतिमविरचितानुत्तरोद्धानचैत्यम् । काञ्चिल्लक्ष्मी जगाहे जलनिधिवसनाम्भोधिशायिप्रियायाचूडारत्नं महीयः शिरसि विनिहितं जहुनालीभुवेव (?) ॥१॥ आकाशे पारवश्यान्नलिनतनुरुहो निस्सहायावलम्बो नित्यप्राचीप्रतीचीजलधिपुलिनभूसीमभूमभ्रमीभिः । अन्तःसञ्जातखेदादिव दिवसमणिः शक्नुवन्नाभिगन्तुं कुत्रापि छद्मनाऽस्या जिनपतिवसतेः क्षोणिमालम्ब्य तस्थौ ॥ २ ॥ अध्नेन स्थास्तुनेव प्रमथिततमसा येन चैत्येन नित्यं व्यक्ति भूमौ निशाह्रोः कथमपि न हृदा विन्दतां कौतुकेन । तल्लक्ष्मी निनिमेषं स्वनयनविषयीकुर्वतां कोविदानां वृन्दं वृन्दारकाणामिव पुरि सुमनोवक्षसां भासते स्म आशासारङ्गचक्षु:समुदयसदनप्राङ्गणाध्वन्यदेश्यस्फूर्जज्ज्योतिर्वितानप्रकटितपरिधिभ्राजिजैनेन्द्रधाम्ना । उद्भिन्नैर्वैभवैः स्वैर्दशशतकिरणो येन मन्येऽभिभूतः । साम्यायाम्भोधिशय्यं परिचरति हरिं सोऽनुसायं समेत्य रुद्रस्याप्युत्तमाङ्गे हठकृतवसतेबिभ्रतोऽपि त्रिशूलं लक्ष्मछिद्रेण राज्ञः सममपि महसां राशिमादाय विद्मः । प्रासादं पद्मजन्मा प्रवणमणिगणाकीर्णमेनं व्यधत्त स्यानैवं चण्डरश्मेरिव हिमकिरणस्यास्य किं न प्रतापः कोकानामिन्दुकान्ताप्रहरविरहिणामश्रुभिर्व्याकुलानां बन्धूनां याचतां स्वां वसतिमनुदिनं तत्कृपालुर्धरायाम् । ॥ ४ ॥ ૧૯ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy