SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गन्धादानेन पुष्पाणां, भोगार्थं नासया पुनः । परेषामतिनिन्दैक-प्रविधानेन जिह्वया स्पर्शनेन्द्रियकेणोच्चै परेषां दारसेवया । पापकर्मागमः पुंसां भवेत्पञ्चभिराश्रवैः यद्भुक्तं घृतपूरादि, पक्वान्नं चारुपायसम् । जठरान्तः प्रविष्टं तद् भवेद्दौर्गन्ध्यसंयुतम् यासां मृगीदृशां रूपं, वक्त्रकटाक्षविभ्रमान् । अवलोक्य प्रजायेत, शरीरी विकलस्त्रिधा तदङ्गे द्वादशश्रोत्र- श्रवद्दौर्गन्ध्यमुच्चकैः । मूढात्मानो न जानन्ति, किं मोहाच्छादिताशयाः आश्रवाणां च पञ्चानां संवरः स्यान्निरोधकः । जिनैर्द्वेधा स तु द्रव्य-भावभेदेन भाषितः शिरोनयनहस्तानां चरणानां तथैव तत् । यतः संवरणं भूयात्, स द्रव्यसंवरः स्मृतः क्रोधतो मानतो दुष्ट-मायातो लोभतस्तथा । मनसः संवृतिर्या स्यात्, स भवेद् भावसंवरः यत्क्षुधातृषया शीता-तपाभ्यां दुःखवेदनम् । निर्जरा सोदिता सार्वैः, सकामाकामभेदतः विपत्तावामये दुःखे, संकटे च समागते । स्वकर्माण्येव यः शोचेत्, सकामा तस्य निर्जरा यस्तदा परकीयानि, दूषणानि विचिन्तयेत् । अकामा निर्जरा तस्य, संजायते शरीरिणः नरके नरनारीर्यो, निपतन्तीः समुद्धरेत् । धर्मोऽभिधीयते तेना - नादिकालं जिनेश्वरैः ૨૫૧ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ 1124 11 ॥ २६ ॥ ॥। २७ ॥ ॥ २८ ॥ ॥ २९ ॥ 11 30 11 ॥ ३१ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy