SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८ ॥ ॥९॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ यया पञ्चेन्द्रियाह्लादा, भुक्ता भोगा अहर्निशम्। मृगेक्षणा न साप्याधि-व्याधिभ्यः शरणं भवेत् सिद्धान्तपारदृश्वानो, ये भवन्ति तपोधनाः । तेषामप्येष संसारो-ऽसारो नरककारणम् स्निह्यन्ति ये जना:स्वार्थ-कृतये बान्धवा इव । तदप्राप्तौ त एव स्यु-र्वैरिभ्योप्यधिका इह अनादिकालमेतेन, संसारे भ्रमतात्मना। न स्पृष्टं जन्ममृत्युभ्यां, यत्तत्स्थानकमस्ति न एकाकी लभते जन्म-काक्येव म्रियते पुमान् । एकाकी दुःखमाप्नोत्ये-काक्येव याति दुर्गतिम् एकेनोपार्जितं वित्तं, प्राज्या भोक्तुं मिलन्ति च । तस्य दु:खे समायाते, विभज्य कोऽपि लाति न एक एव भवत्यन्ध, एक एव जडत्वभृत् । एक एव धरेन्मौढ्य-मेक एव च रोगिताम् भिन्ना माता पिता भिन्नो, भिन्नाः स्वजनबान्धवाः । भिन्नानि धनधान्यानि, भिन्नाः कलत्रपुत्रकाः एतेभ्यो निखिलेभ्योऽपि, भिन्नोऽहं निजकर्मभिः । यास्यामि देवतामर्त्यतिर्यग्नारककां गतिम् य एवं चिन्तयेच्चित्ते, स एव धर्मकर्मठः । विजाननन्यमात्मानं, मोक्षसौख्यानि साधयेत् श्रवन्ति पापकर्माणि, पञ्चेन्द्रियेषु देहिनाम् । कथिता आश्रवास्तेन, स्वर्गादिसौख्यवारिणः श्रवणेनान्यपैशुन्य-श्रवणेश्वर्यधारणात् । नेत्रेण परदाराणां, रूपावलोकनेन च ॥ १४॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८ ॥ ॥ १९ ॥ ૨૫૦ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy