________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३८ ॥
॥ ३९॥
नाभिवर्णनम् (मालिनी) सुभगमतिगभीरं नाभिदेशं सुदत्याः किमनुभवसि पश्यन् मन्दबुद्धे ! प्रमोदम् ? । तमसमशमचञ्चच्चन्द्रबिम्बादनाय प्रसृततममिवास्यं विद्धि वैधुन्तुदं भोः ! स्त्रि ! तव रतिपकेलीहेतवे नाभिवापी रसतरलतरङ्गा वेधसेयं व्यधायि । उपमितिमिति कुर्वन् यासि यच्छभ्रगर्ते तदुचितमथवा किं नीचसङ्गः शुभाय ?
नितम्बवर्णनम् (पृथ्वी) नितम्बिनि ! नितम्बकं तव रतीशकेलीस्पृशो नितम्बमिव भूभृतः समधिरोदुमीहेत यः । ततो विषयवायुना तरुपलाशवत् तस्य किं प्रकम्पिततनोरध: पतनमौचिती नाञ्चति ? घनं जघनमण्डलं तरुणि ! राजहंसादृतं तवैश्य सुरवाहिनीपुलिनमित्यहो ! संश्रयन् । स भूरिजडतोल्लसद्बहललोलकल्लोलकैविलोडितमतिर्बुवं भवपयोनिधौ मज्जति
___ ऊरुवर्णनम् (हरिणी) अनघजघनाजवादम्भात् स्मरस्मरवल्लभाकलभयुगलीबन्धस्तम्भद्वयं विदधे विधिः । इति विमृशतस्तस्याघक्ष्मापति: किमु नो हहा निबिडनिबिडं कारागारे करिष्यति बन्धनम् तव वरतनो ! येषामूरूयुगं क्रमवर्तुलं करिवरकराकारं स्फारं मनो मदयत्यलम्।
॥ ४० ॥
॥४१ ॥
॥ ४२ ॥
૨૦૬
For Private And Personal Use Only