SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org हितवादिषु स द्वेषी रोगी यदपथ्यसेवको भवति । नीरुग्भेषजभक्षी निःसंशयतो मुमूर्षुमतिः भोजनकाले कुपितो गन्ताऽमार्गेऽपि शुक्लकुलजातः । कुलमदतोऽसेवाकृत् त्रयो महामन्दमतिमुख्याः मित्रोद्वेगकरो यो धूतैर्विश्वास्य वञ्च्यते सततम् । गुणवान् मत्सरसहितः सकला विकलाः कलास्तस्य रमणीरमणीयतरो ऽन्यदारसक्तोऽप्रियोऽपि सिद्धार्थे । गोष्ठीनिरतो निधनो निर्बुद्धि शिरोमणिः पुरुषः धातुवादादिकृते विहितधनाशो रसायने रसिकः । विषभुक् परीक्षणार्थं त्रिकमेतदनर्थकोशगृहम् गुह्येोक्ता परवश्यः कुकर्मणो भृत्यभीतिकर्ता यः । निजकोपसमापाती दुर्यशसामपि पदममी स्युः दोषेष्वधिको रसिकः क्षणानुरागी च गुणगणाभ्यासे । बहुहानिरल्परक्षी नास्पदमपि सम्पदां भवति प्रणतेष्वनतो मौनी दुर्बलपीडितनरेषु सोत्साहः । बहुगर्वेण स्तब्धो न भवेज्जनवल्लभः क्वचन दीनवदनोऽतिदुःखे सुखसम्पत्तौ न दुर्गतेर्भयकृत् । दुष्कर्मणि निर्लज्जो बालैरुपहस्यते स भृशम् धूर्तस्तुत्या भ्रमितस्त्वात्मनि यशसैव पात्रपोषकरः । आत्महितेष्वविमर्शी क्षयमेव स शीघ्रमुपयाति वाचाल : कुशलोऽहं चपलः सहितोद्यमोऽस्मि सोऽहमिति । निःशङ्कः शूरोऽहं स मन्यते यस्तु मूढात्मा धर्मद्रोहसुखेच्छुरन्यायेन च विवर्धिषुर्नितराम् श्रेयः संबलमुक्तो मरणान्ते दुर्गतेरतिथिः ૧૯૫ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ४७ ॥ ।। ४८ ।। ॥ ४९ ॥ ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ।। ५४ ।। ॥ ५५ ॥ ॥ ५६ ॥ 114011 ॥ ५८ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy