SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४५ ॥ ॥ ४६॥ || ४७॥ ॥ ४८ ॥ ।। ४९ ॥ ॥ ५० ॥ धर्माधर्मफलं नान्यो दर्शयेद् गुरुमन्तरा । प्रदेशिनृपवज्जन्तुं निरयाद् गुरुरुद्धरेत् पालकस्येव नो जन्तोः फलदं द्रव्यवन्दनम्। इहापि फलदा भाव-नतिः शाम्बकुमारवत् अभव्यो निर्दयः क्रूरः कुर्वाणो नैव शङ्कते । अकार्यं वार्यमाणोऽपि कुबुद्धिः पालको यथा निरपराधान् व्यसनी जन्तून् व्यापादयन् जनः । अवश्यं नरकं गच्छेद् यथा कालकसूरिक: आसादयेन्मुक्तिशर्म विषयान् विषसंनिभान् । त्यजञ्जीवोऽन्यथा स्वर्ण-कारवद् दुर्गतिं व्रजेत् अनन्तफलदं धर्मं त्यक्त्वाऽज्ञानतपो जनः । कुर्वन् नाडिन्धम इव पश्चात्तापं समाचरेत् अनाथिश्रमणस्येव भवेत् सद्धर्मकर्मणः । मनोरथोऽपि जन्तूनां नानातिच्छेदकः क्षणात् साधयेद् दृढधर्माऽऽस्थाऽत्रापि चिन्तितमुच्चकैः । राजताडवनी जाता कुमारनृपतेरिव धर्मादेव विलीयेत जरामरणजन्मभीः । अपि यत्नशतैर्नान्यैरिभ्यस्येव यमार्चितुः नन्दिषेण इवावश्यं भोग्यकर्माणि देहिनम् । अनिच्छुमपि भोगेच्छु कुर्वन्ति क्षणमात्रतः निरूपयन्नागमार्थ-मप्युत्सूत्रं प्ररूपयन्। परिभ्रमति संसारं कमलप्रभसूरिवत् मनोऽभीष्टपदप्राप्त्यै प्रव्रज्याऽप्येकरात्रिकी । भवेदाराधिता सम्य-गवन्तिसुकुमालवत् ॥५१॥ ।। ५२ ॥ ॥ ५३ ।। ॥ ५४॥ ॥ ५५ ॥ ૧૮૪ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy