SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १६० पद्मनन्दि-पञ्चविंशतिः 521 ) पापं कारितवान् यदत्र कृतवानन्यैः कृतं साध्विति भ्रान्त्याहं प्रतिपन्नवांश्च मनसा वाचा च कायेन च । काले संप्रति यच्च भाविनि नवस्थानोद्गतं यत्पुनस्तन्मिथ्याखिलमस्तु मे जिनपते स्वं निन्दतस्ते पुरः ॥ ७ ॥ 522 ) लोकालोकमनन्तपर्यययुतं कालत्रयीगोचरं त्वं जानासि जिनेन्द्र पश्यसि तरां शश्वत्समं सर्वतः । स्वामिन् वेत्सि ममैकजन्मजनितं दोषं न किंचित्कुतो तोस्ते पुरतः स वाच्य इति मे शुद्ध्यर्थमालोचितुम् ॥ ८ ॥ 523 ) आश्रित्य व्यवहारमार्गमथ वा मूलोत्तराख्यान् गुणान् साधोर्धारयतो मम स्मृतिपथप्रस्थायि यहूषणम् । शुद्ध्यर्थं तदपि प्रभो तव पुरः सज्जो ऽहमालोचितुं निःशल्यं हृदयं विधेयमजडैर्भव्यैर्यतः सर्वथा ॥ ९ ॥ [521: ९७ केनचित् प्रयोजनं कार्यं न ॥ ६ ॥ भो जिनपते । अहं सेवकः । अत्र लोके । यत्पापं कारितवान् । यत्पापम् अहं कृतवान् । अन्यैः कृतं पापं भ्रान्त्या साधु इति प्रतिपन्नवान् अङ्गीकृतम् । च पुनः । मनसा मनोयोगेन । वो वाचा वचोयोगेन । कायेन काययोगेन । पापम् अङ्गीकृतम् । यत्पापं संप्रति पञ्चमकाले । नवस्थानात् उद्गतम् उत्पन्नम् । यत्पापं भाविनि । आगामिकाले भविष्यति । भो जिनपते तत् अखिलं समस्तम् । मे मम पापम् । मिथ्या अस्तु । किंलक्षणस्य मम । ते तव । पुरः अग्रे । स्वम् आत्मानं निन्दतः ॥ ७ ॥ भो जिनेन्द्र । त्वं लोकम् अलोकम् । शश्वत् अनवरतम् । समं युगपत् । सर्वतः । तराम् अतिशयेन । जानासि पश्यसि । किंलक्षणं लोकालोकम् । अनन्तपर्यययुतम् । पुनः कालत्रयीगोचरम् । भो स्वामिन् । मम एकजन्मजनितम् उत्पन्नं दोषं किंचित्कुतो हेतोः । न वेत्सि न जानासि । स दोषः ते तव सर्वज्ञस्य । पुरतः अग्रतः । वाच्यः कथनीयः । इति हेतोः । इतीति किम् । मे मम । शुद्ध्यर्थम् आलोचितुम् ॥ ८ ॥ अथवा व्यवहारमार्गम् आश्रित्य । साधोः मुनीश्वरस्य । मूलगुण-उत्तरगुणान् धारयतो मम । यर्ते स्मृतिपथं प्रस्थायि स्मर्यमाणमपि । दूषणम् । हे प्रभो । अहं शुद्धयर्थं तदपि । तव पुरः अग्रतः । आलोचितुम् । सज्जः सावधानो जातः । यतः । अजडेः चतुरैः भव्यैः सर्वथा हृदयं 1 हे जिनेन्द्र देव ! मन, वचन और कायसे मैंने यहां जो कुछ भी अज्ञानतावश पाप किया है, अन्यके द्वारा कराया है, तथा दूसरोंके द्वारा किये जानेपर 'अच्छा किया' इस प्रकारसे स्वीकार किया है अर्थात् अनुमोदना की है; इसके अतिरिक्त इन्हीं नौ स्थानों ( १ मनःकृत, २ मनः कारित, ३ मनोऽनुमोदित, ४ वचनकृत, ५ वचनकारित, ६ वचनानुमोदित, ७ कायकृत, ८ कायकारित और ९ कायानुमोदित ) के द्वारा और भी जो पाप वर्तमान कालमें किया जा रहा है तथा भविष्य में किया जावेगा वह सब मेरा पाप तुम्हारे सामने आत्मनिन्दा करनेसे मिथ्या होवे ॥ ७ ॥ हे जिनेन्द्र ! तुम त्रिकालवर्ती अनन्त पर्यायोंसे सहित लोक एवं अलोकको सदा सब ओरसे युगपत् जानते और देखते हो । फिर हे स्वामिन् ! तुम मेरे एक जन्ममें उत्पन्न दोषको किस कारणसे नहीं जानते हो ? अर्थात् अवश्य जानते हो । फिर भी मैं आलोचनापूर्वक आत्मशुद्धिके लिये उक्त दोषको आपके सामने प्रगट करता हूं ॥ ८ ॥ व्यवहार मार्गका आश्रय करके अथवा मूल एवं उत्तर गुणोंको धारण करनेवाले मुझ साधुको जो दूषण स्मरणमें आ रहा है उसकी भी शुद्धिके लिये हे प्रभो ! मैं आपके आगे आलोचना करनेके लिये उद्यत हुआ हूं । कारण यह कि विवेकी भव्य जीवोंको सब प्रकार से अपने हृदयको शल्यरहित करना चाहिये ॥ ९ ॥ १श 'वा' नास्ति । २ क इति । ३ क मया । ४ क 'यत्' नास्ति ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy