SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ [९. आलोचना] 515) यद्यानन्दनिधि भवन्तममलं तत्त्वं मनो गाहते त्वन्नामस्मृतिलक्षणो यदि महामन्त्रो ऽस्त्यनन्तप्रभः । यानं च त्रितयात्मके यदि भवेन्मार्गे भवदर्शिते को लोकेऽत्र सतामभीष्टविषये विघ्नो जिनेश प्रभो॥१॥ 516) निम्संगत्वमरागिताथ समता कर्मक्षयो बोधनं विश्वव्यापि समं दृशा तदतुलानन्देन वीर्येण च । ईसग्देव तवैव संसृतिपरित्यागाय जातः क्रमः शुद्धस्तेन सदा भवञ्चरणयोः सेवा सतां संमता ॥२॥ 517) यद्येतस्य दृढा मम स्थितिरभूत्त्वत्सेवया निश्चितं त्रैलोक्येश बलीयसो ऽपि हि कुतः संसारशत्रोर्भयम् । प्राप्तस्यामृतवर्षहर्षजनकं सद्यन्त्रधारागृहं पुंसः किं कुरुते शुचौ खरतरो मध्याह्नकालातपः ॥ ३॥ भो जिनेश । भो प्रभो। यदि चेत् । सतां साधूनाम् । मनः । भवन्तम् । अमलं निर्मलम् । तत्वमे आनन्दनिधिम् । गाहते विचारयति । यदि चेत् । त्वन्नामस्मृतिलक्षणः तव नामस्मरणलक्षणः । अनन्तप्रभः महामन्त्रः अस्ति । च पुनः। यदि चेत् । भवहर्शिते । त्रितयात्मके मार्गे रत्नत्रयमार्गे। यानं गमनम्। अस्ति तदा। अत्र लोके। सतां साधूनाम् । अमीष्टविषये कल्याणविषये। कः विघ्नः । अपि तु न कोऽपि विघ्नः॥१॥ भो देव । संसृतिपरित्यागाय संसारनाशाय । ईदृक् शुद्धः। क्रमः मार्गः तवैव । जातः उत्पन्नः । तदेव दर्शयति । निःसंगत्वं अपरिग्रहत्वम् । अथ अरागिता नि[नी रागत्वम् । समता। कर्मक्षयः । विश्वव्यापि बोधनं ज्ञानम् । च पुनः । तत् ज्ञानम् । अतुल-आनन्देन वीर्येण । दृशा केवलदर्शनेन । समं सार्धम् । तेन कारणेन । सतां साधूनाम् । सदा काले। भवचरणयोः तव चरणयोः । सेवा संमता कथिता ॥२॥ भो त्रैलोक्येश। यदि चेत् । एतस्य प्रत्यक्षवर्तमानस्य मम त्वत्सेवया दृढा स्थितिः अभूत् निश्चितम् । तदा संसारशत्रोः । बलीयसः गरिष्ठस्य । अपि । हि यतः। भयं कुतः कस्माद्भवति । अमृतवर्षणेन हर्षजनकम् उत्पादकम् । सत्समीचीनम् । यत्रधारागृहं प्राप्तस्य पुंसः पुरुषस्य । शुचौ ज्येष्ठाषाढे । खरतरः भतिशयेन तीक्ष्णः । मध्याह्नकालातपः किं कुरुते । अपि तु किमपि न कुरुते ॥ ३ ॥ हे जिनेन्द्र देव ! यदि साधु जनोंका मन आनन्दके स्थानभूत निर्मल आपके स्वरूपका अवगाहन करता है, यदि अनन्त दीप्तिसे सम्पन्न आपके नामका स्मरणरूप महामंत्र पासमें है, और यदि आपके द्वारा दिखलाये गये रत्नत्रयस्वरूप मोक्षमार्गमें गमन है; तो फिर यहां लोकमें उन साधु जनोंको अपने अभीष्ट विषयमें विघ्न कौन-सा हो सकता है ? अर्थात् उनके लिये अभीष्ट विषयमें कोई भी बाधा उपस्थित नहीं होती॥१॥ हे देव! परिग्रहत्याग, वीतरागता, समता, कर्मका क्षय, केवलदर्शनके साथ समस्त पदार्थोंको एक साथ विषय करनेवाला ज्ञान (केवलज्ञान ), अनन्तसुख और अनन्तवीर्य; इस प्रकारकी यह विशुद्ध प्रवृत्ति संसारसे मुक्त होनेके लिये आपकी ही हुई है । इसीलिये साधु जनोंको सदा आपके चरणोंकी आराधना अभीष्ट है ॥ २ ॥ हे त्रिलोकीनाथ ! यदि आपकी आराधनासे निश्चयतः मेरी ऐसी दृढ़ स्थिति हो गई है तो फिर मुझे अतिशय बलवान् भी संसाररूप शत्रुसे भय क्यों होगा ? अर्थात् नहीं होगा । ठीक है-अमृतवर्षासे हर्षको उत्पन्न करनेवाले ऐसे उत्तम यन्त्रधारागृह (फुव्वारोंसे युक्त गृह) को प्राप्त हुए पुरुषको क्या ग्रीष्म ऋतुमें मध्याहकालीन सूर्यका अत्यन्त तीक्ष्ण भी सन्ताप दुःखी कर सकता है ? अर्थात् नहीं १श शमता। २ भश अमलं तत्वं । ३ शत्रयात्मके रत्नत्रयमार्गे। ४क 'निरागत्वं नास्ति। ५'तव चरणयोः नास्ति ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy