SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ ८. सिद्धस्तुतिः ] 486) सूक्ष्मत्वादणुदर्शिनो ऽवधिदृशः पश्यन्ति नो यान् परे यत्संविन्महिमंस्थितं त्रिभुवनं खस्यं भमेकं यथा । सिद्धानामहमप्रमेयमहसां तेषां लघुर्मानुषो मूढात्मा किमु वच्मि तत्र यदि वा भक्त्या महत्या वशः ॥ १ ॥ 487) निःशेषामरशेखराश्रितमणिश्रेण्यर्चिताङ्गिद्रया देवास्ते ऽपि जिना यदुन्नतपदप्रात्यै यतन्ते तराम् । सर्वेषामुपरि प्रवृद्धपरमशानादिभिः क्षायिकैः युक्ता न व्यभिचारिभिः प्रतिदिनं सिद्धान् नमामो वयम् ॥ २ ॥ 488) ये लोकाग्रविलम्बिनस्तदधिकं धर्मास्तिकायं विना नो याताः सहजस्थिरामललसद्दृग्बोधसन्मूर्तयः । संप्राप्ताः कृतकृत्यतामसदृशाः सिद्धा जगन्मङ्गलं नित्यानन्द सुधारसस्य च सदा पात्राणि ते पान्तु वः ॥ ३ ॥ अहं मानुषः । मूढात्मा मूर्खः । लघुः हीनः । तेषां सिद्धानाम् । किमु वच्मि किं कथयामि । किंलक्षणानां सिद्धानाम् । अप्रमेयमहसां मर्यादारहिततेजसाम् । यान् सिद्धान् सूक्ष्मत्वात् परे अवधिदृशः अवधिज्ञानिनः । अणुदर्शिनः सूक्ष्मपरमाणुदर्शिनः । नो पश्यन्ति । येषां सिद्धानां ज्ञाने । त्रिभुवनं प्रतिभासते । यथा खस्थम् । आकाशे स्थितम् । भं नक्षत्रम् । भासते । यत् ज्ञानम् । त्रिभुवने । संविन्महिमेस्थितम् । यदि वा । तत्र तेषु सिद्धेषु । यत्किंचिद्वच्मि तत् भक्त्या महत्या वशः कथ्यते ॥ १ ॥ वयम् आचार्याः प्रतिदिनं सिद्धान् नमामः । किंलक्षणान् सिद्धान् । सर्वेषामुपरि प्रवृद्धपरमज्ञानादिभिः क्षायिकैः युक्तान् । अव्यभिचारिभिः विनाशरहित गुणैः ५ युक्तान् । यदुन्नतपदप्राप्त्यै येषां सिद्धानाम् उन्नतपदप्राप्त्यै । तेऽपि जिनाः तीर्थंकरदेवाः । तराम् अतिशयेन । यतन्ते यत्नं कुर्वन्ति । किंलक्षणा जिनदेवाः । निःशेषा अमराः देवाः तेषां शेखरेषु मुकुटेषु आश्रिता ये मणयः तेषां मणीनां श्रेणिभिः अर्चितम् अद्वियं येषां ते निःशेषामरशेखराश्रितमणिश्रेण्य चिंताविद्धयाः ॥ २ ॥ ते सिद्धाः । वः युष्मान् । सदा सर्वदा । पान्तु रक्षन्तु । ये सिद्धाः । लोकाप्रविलम्बिनः । तदधिकं लोकात् अग्रे । नो याताः । केन विना । धर्मास्तिकायं विना। किंलक्षणाः सिद्धाः । सहज स्थिरातिनिर्मललसद्वग्-दर्शन-बोध-ज्ञानमूर्तयः । पुनः किंलक्षणाः सिद्धाः । कृतकृत्यतां संप्राप्ताः । पुनः असदृशाः असमानाः । पुनः किंलक्षणाः सिद्धाः । जगन्मङ्गलम् । च पुनः । नित्यानन्दसुधारसस्य पात्राणि । ते सूक्ष्म होनेसे जिन सिद्धोंको परमाणुदर्शी दूसरे अवधिज्ञानी भी नहीं देख पाते हैं तथा जिनके ज्ञानमें स्थित तीनों लोक आकाशमें स्थित एक नक्षत्रके समान स्पष्ट प्रतिभासित होते हैं उन अपरिमित तेजके धारक सिद्धोंका वर्णन क्या मुझ जैसा मूर्ख व हीन मनुष्य कर सकता है ? अर्थात् नहीं कर सकता । फिर भी जो मैं उनका कुछ वर्णन यहां कर रहा हूं वह अतिशय भक्तिके वश होकर ही कर रहा हूं ॥ १ ॥ जिनके दोनों चरण समस्त देवोंके मुकुटोंमें लगे हुए माणियोंकी पंक्तियोंसे पूजित हैं, अर्थात् जिनके चरणोंमें समस्त देव भी नमस्कार करते हैं, ऐसे वे तीर्थंकर जिनदेव भी जिन सिद्धोंके उन्नत पदको प्राप्त करनेके लिये अधिक प्रयत्न करते हैं; जो सबके ऊपर वृद्धिंगत होकर अन्य किसीमें न पाये जानेवाले ऐसे अतिशय वृद्धिंगत केवलज्ञानादिस्वरूप क्षायिक भावोंसे संयुक्त हैं; उन सिद्धोंको हम प्रतिदिन नमस्कार करते हैं ॥ २ ॥ जो सिद्ध जीव लोकशिखरके आश्रित हैं, आगे धर्म द्रव्यका अभाव होनेसे जो उससे अधिक उपर नहीं गये हैं, जो अविनश्वर स्वाभाविक निर्मल दर्शन ( केवलदर्शन ) १ क श संचिन्महिम । २ म (जै सि. ) श स्वच्छं । ३ श स्वच्छं । ४ श किंचित् भक्त्या । ५ श रहितैर्गुणैः । ६ श ते जिनाः । ७ क निःशेषामराः निःशेषदेवाः ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy