SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ૪૦ पद्मनन्दि-पञ्चविंशतिः 465 ) देवाराधनपूजनादिबहुषु व्यापारकार्येषु सत्पुण्योपार्जन हेतुषु प्रतिदिनं संजायमानेष्वपि । संसारार्णवतारणे प्रवहणं सत्पात्रमुद्दिश्य यत् तद्देशव्रतधारिणो धनवतो दानं प्रकृष्टो गुणः ॥ ७ ॥ 466) सर्वो वाञ्छति सौख्यमेव तनुभृत्तन्मोक्ष एव स्फुटं दृष्ट्यादित्रय एव सिध्यति स तन्निर्ग्रन्थ एव स्थितम् । तद्वृत्तिर्वपुषो ऽस्य वृत्तिरशनात्तदीयते श्रावकैः काले क्लिष्टतरे ऽपि मोक्षपदवी प्रायस्ततो वर्तते ॥ ८ ॥ 467 ) स्वेच्छाहारविहारजल्पनतया नीरुग्वपुर्जायते साधूनां तु न सा ततस्तदपटु प्रायेण संभाव्यते । कुर्यादौषधपथ्यवारिभिरिदं चारित्रभारक्षमं यत्तस्मादिह वर्तते प्रशमिनां धर्मो गृहस्थोत्तमात् ॥ ९ ॥ [ 465: ७७ करोति । गृही दानं करोति । गृही भोगयुगं भोग-उपभोगप्रमाणं संख्यां करोति । सर्व व्रतम् उररी- अङ्गीकुर्यात् । इति हेतोः । व्रती कथ्यते ॥ ६ ॥ देशव्रतधारिणः धनवतः श्रावकस्यै । सत्पात्रम् उद्दिश्य यत् दानं भवेत् तत् प्रकृष्टः श्रेष्ठगुणः भवति । किंलक्षण दानम् । संसारार्णवतारणे प्रवहणं प्रोहणम् । केषु सत्सु । देव-आराधनपूजनादिबहुषु व्यापारकार्येषु सत्पुण्योपार्जनहेतुषु प्रतिदिनं संजायमानेषु अपि ॥ ७ ॥ सर्वः तनुभृत् सौख्यम् एव वाञ्छति । तत् सौख्यम् । स्फुटं व्यक्तम् । मोक्षे एव । स मोक्षः । दृष्ट्यादित्रये सति सिध्यति । तत् दृष्ट्यादित्रयं निर्ग्रन्थपदे स्थितम् । तन्निर्ग्रन्थवृत्तिः वपुषः शरीरात् भवति । अस्य शरीरस्य । वृत्तिः स्थिरता । भशनात् भोजनात् भवति । तत् अशनं भोजनम् । श्रावकैः दीयते । काले क्लिष्टतरे अपि । प्रायः बाहुल्येन । ततः श्रावकात् । मोक्षपदवी वर्तते ॥ ८ ॥ इह जगति संसारे । तस्मात् कारणात् । प्रशमिनां योगिनाम् । धर्मः । गृहस्थोत्तमात् श्रावकात् तर्तते । यत् वपुः शरीरम् । स्वेच्छाहारविहारजल्पनतया । नीरुग् रोगरहितं जायते । तु पुनः । साधूनाम् । सा स्वच्छा न । ततः कारणात् । प्रायेण बाहुल्येन । ततै मुनीनां वपुः शरीरम् । अपटु रुजा रोगेण रहितं न संभाव्यते । इदं का परित्याग करता है; तथा सामायिक, प्रोषधोपवास, दान ( अतिथिसंविभाग ) और भोगोपभोगपरिमाणको स्वीकार करता है || ६ || देशनती धनवान् श्रावकके प्रतिदिन उत्तम पुण्योपार्जन के कारणभूत देवाराधना एवं जिनपूजनादिरूप बहुत कार्योंके होनेपर भी संसाररूपी समुद्रके पार होनेमें नौकाका काम करनेवाला जो सत्पात्रदान है वह उसका महान् गुण है । अभिप्राय यह है कि श्रावकके समस्त कार्योंमें मुख्य कार्य सत्पात्रदान है || ७ || सब प्राणी सुखकी ही इच्छा करते हैं, वह सुख स्पष्टतया मोक्षमें ही है, वह मोक्ष सम्यग्दर्शनादिस्वरूप रत्नत्रयके होनेपर ही सिद्ध होता है, वह रत्नत्रय दिगम्बर साधुके ही होता है, उक्त साधु की स्थिति शरीर के निमित्तसे होती है, उस शरीरकी स्थिति भोजनके निमित्तसे होती है, और वह भोजन श्रावकों द्वारा दिया जाता है । इस प्रकार इस अतिशय क्लेशयुक्त कालमें भी मोक्षमार्गकी प्रवृत्ति प्रायः उन श्रावकोंके निमित्तसे ही हो रही है ॥ ८ ॥ शरीर इच्छानुसार भोजन, गमन और संभाषणसे नीरोग रहता है । परन्तु इस प्रकारकी इच्छानुसार प्रवृत्ति साधुओंके सम्भव नहीं है । इसलिये उनका शरीर प्रायः अस्वस्थ हो जाता है । ऐसी अवस्थामें चूंकि श्रावक उस शरीरको औषध, पथ्य भोजन और जलके द्वारा व्रतपरिपालनके योग्य करता है अत एव यहां उन मुनियोंका धर्म उत्तम श्रावकके निमित्तसे ही चलता १ श करोति । २ श धनवतः पुरुषस्य श्रावकस्य । ३ श करोति । ४ क कार्येषु सत्सु पुण्योपार्जन हेतुषु, अ-प्रतौ त्रुटितं जातं पत्रमत्र । ५ श ततः ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy