SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ -381 : ४-२४] ४. एकत्वसप्ततिः 325 ) अजमेकं परं शान्तं सर्वोपाधिविवर्जितम्। आत्मानमात्मना ज्ञात्वा तिष्ठेदात्मनि यः स्थिरः ॥१८॥ 326 ) स एवामृतमार्गस्थः स एवामृतमश्रुते । स एवार्हन् जगन्नाथः स एव प्रभुरीश्वरः ॥ १९ ॥ 327) केवलज्ञानहक्सौख्यस्वभावं तत्परं महः । तत्र झाते न किं ज्ञातं दृष्टे दृष्टं श्रुते श्रुतम् ॥२०॥ 328 ) इति ज्ञेयं तदेवैकं श्रवणीयं तदेव हि । द्रष्टव्यं च तदेवैकं नान्यनिश्चयतो बुधैः ॥२१॥ 329 ) गुरूपदेशतो ऽभ्यासाद्वैराग्यादुपलभ्य यत् । कृतकृत्यो भवेद्योगी तदेवैकं न चापरम् ॥२२॥ 330 ) तत्प्रतिप्रीतिचित्तेन येन वार्तापि हि श्रुता । निश्चितं स भवेद्भव्यो भाविनिर्वाणभाजनम् ॥२३॥ 331) जानीते यः परं ब्रह्म कर्मणः पृथगेकताम् । गतं तद्गतबोधात्मा तत्स्वरूपं स गच्छति ॥ २४ ॥ शानवान्। किंलक्षणम् आत्मानम्। अर्ज जन्मरहितम् । एकम् अद्वितीयम् । परम् उत्कृष्टम्। शान्तम् । सर्वोपाधिविवर्जितम् ॥१८॥ यः आत्मनि विषये स्थिरः भवेत् स एव अमृतमार्गस्थः। स एव अमृतम् अश्रुते आत्मानम् अनुभवति । स एव अर्हन् पूज्यः । व जगन्नाथः। स एव प्रभः । स एव ईश्वरः ॥ १९ ॥ तत्पर महः केवलज्ञानदृक्सौख्यस्वभावं वर्तते । तत्र तस्मिन् महसि । ज्ञाते सति किं न ज्ञातम् । तत्र तस्मिन् स्वभावे दृष्टे सति किं न दृष्टम् । तत्र तस्मिन् आत्मनि श्रुते सति किं न श्रुतम् । सर्व ज्ञातं सर्व श्रुतं सर्वे दृष्टम् ॥ २०॥ इति पूर्वोक्तप्रकारेण । बुधैः पण्डितेः । तदेव एकम् आत्मतत्त्वम् । झेयं ज्ञातव्यम् । हि यतः। तदेव आत्मतत्त्वं श्रयणीयम् । च पुनः । तदेव आत्मतत्त्वं द्रष्टव्यं निश्चयतः । अन्यत् न ॥२१॥ योगी मुनीश्वरः । यत् आत्मतत्त्वम् । गुरूपदेशतः । उपलभ्य प्राप्य । वा अभ्यासात् आत्मतत्त्वं प्राप्य । अथवा वैराग्यात् आत्मतत्त्वम् उपलभ्य प्राप्य । कृतकृत्यः कर्मरहितः भवेत् । तदेव एकम् आत्मतत्त्वम् अपरं न ॥ २२॥ हि यतः । येन पुरुषेण । तस्य आत्मनः वार्ता अपि श्रुता भवति । किंलक्षणेन पुरुषेण । तत्प्रतिप्रीतिचित्तेन तस्य आत्मनः प्रति प्रीतिचित्तेन । निश्चितम् । स भव्यः भवेत् भावि-आगामिनिर्वाणभाजनं मोक्षपात्रं भवेत् ॥ २३ ॥ यः परम् उत्कृष्टम् । ब्रह्म जानीते। तद्तबोधात्मा तस्मिन् आत्मनि गतः प्राप्तः बोधात्मा। तत्स्वरूपं तस्य आत्मनः स्वरूपम् । गच्छति । किंलक्षणं ब्रह्म । कर्मणः सकाशात् । पृथक् भिन्नम् । आत्मनि एकतां गतं प्राप्तम् ॥ २४ ॥ हि यतः । केनापि परेण परवस्तुना सह संबन्धः कर्मबन्धकारणम् । उक्त सम्यग्दर्शनादिको पृथक् पृथक् स्वरूपसे देखता हूं ॥ १७ ॥ जो महात्मा जन्म-मरणसे रहित, एक, उत्कृष्ट, शान्त और सब प्रकारके विशेषणोंसे रहित आत्माको आत्माके द्वारा जानकर उसी आत्मामें स्थिर रहता है वही अमृत अर्थात् मोक्षके मार्गमें स्थित होता है, वही मोक्षपदको प्राप्त करता है । तथा वही अरहन्त तीनों लोकोंका स्वामी, प्रभु एवं ईश्वर कहा जाता है ॥ १८-१९॥ केवलज्ञान, केवलदर्शन और अनन्त सुखस्वरूप जो वह उत्कृष्ट तेज है उसके जान लेनेपर अन्य क्या नहीं जाना गया, उसके देख लेनेपर अन्य क्या नहीं देखा गया, तथा उसके सुन लेनेपर अन्य क्या नहीं सुना गया ? अर्थात् एक मात्र उसके जान लेनेपर सब कुछ ही जान लिया गया है, उसके देख लेनेपर सब कुछ ही देखा जा चुका है, तथा उसके सुन लेनेपर सभी कुछ सुन लिया गया है ॥ २० ॥ इस कारण विद्वान् मनुष्यों के द्वारा निश्चयसे वही एक उत्कृष्ट आत्मतेज जाननेके योग्य है, वही एक सुननेके योग्य है, तथा वही एक देखनेके योग्य है; उससे भिन्न अन्य कुछ भी न जाननेके योग्य है, न सुननेके योग्य है, और न देखनेके योग्य है ॥ २१॥ योगीजन गुरुके उपदेशसे, अभ्याससे और वैराग्यसे उसी एक आत्मतेजको प्राप्त करके कृतकृत्य (मुक्त) होते हैं, न कि उससे भिन्न किसी अन्यको प्राप्त करके ॥ २२ ॥ उस आत्मतेजके प्रति मनमें प्रेमको धारण करके जिसने उसकी बात भी सुनी है वह निश्चयसे भव्य है व भविष्यमें प्राप्त होनेवाली मुक्तिका पात्र है ।। २३ ॥ जो ज्ञानस्वरूप जीव कर्मसे पृथक् होकर अभेद अवस्थाको प्राप्त हुई उस उत्कृष्ट आत्माको जानता है और उसमें लीन होता है वह स्वयं ही उसके स्वरूपको प्राप्त हो जाता है १ श आश्रयणीयम् । २ क कृतकृत्यो भवेत् । ३ क बोधात्मा स्वरूपं ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy