SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥ ७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बतार्हता व्रतानेि कीदृशानि उक्तानि कथं च ते साम्प्रतीना मुनयः श्राद्धा वा अनुतिष्ठन्ति १, व्रतानां सम्यग्ज्ञानपूर्वकाणां निरतीचाराणामेव मोक्षं प्रति साधनता, ततः किमेभिर्ब्राह्याडम्बररूपरशुद्धचेतनापरिणामैः, यदुवाच अमृतचन्द्रः समयसार वृत्तौ "परमार्थे त्वस्थितो यः करोति तपो व्रतं वा धारयति । तत् सबै बालतपो चालवतं विदन्ति सर्वज्ञाः ॥ १॥" उपदेशमालायामपि "जो जहवायं न कुणइ मिच्छदिट्ठी तओ हु को अन्नो । वड्डेइ य मिच्छत्तं परस्स संकं जणेमाणो || १ ||" इत्यादि नयावलम्बनाच्छंकायुक्तो जात इति गाथार्थः ॥ ४ ॥ जाया वयस्सिवि कयावि तस्सन्नपाणपरिभोगे । छुहतिण्हाइस एणं मणसंकप्पाओ वितिगिच्छा ॥ ५ ॥ जाता व्रतस्थितस्यापि कदापि तस्यान्नपानपरिभोगे । क्षुत्तृष्णातिशयेन मनःसङ्कल्पाद्विचिकित्सा ॥ ५ ॥ कदापि काले पोषधोपवासादिवते स्थितस्य तस्य उत्कृष्टतया चतुर्विधाहारपरित्यागवतः क्षुत्तष्णातिभारेण धान्यं जलं वा परिभुंजे इति मनसः संरम्भाद्विचिकित्सा-धर्म्मफले सन्देहः, कायन व्रतं वर्त्तमानोऽप्यहं मनसा धान्यादिषु परिणाममनुभवामि, ततोऽनुभवसिद्धेऽर्थे विरोधासिद्धेर्मनसि अन्यत्र प्रवृत्ते केवलकायेन क्रियमाणस्य धर्म्मस्य फलं न किमपीति संशीतिर्जज्ञे इति गाथार्थः ॥ ५ ॥ अथ प्रविशति रङ्गाचार्य: पुढं तेण गुरुणं भयवं ! जंपेह दुव्विकप्पस्स । णिच्छ्रयओ किमवि फलं केवलकिरिआइ अस्थि ण वा १ ॥६॥ पृष्टं तेन गुरूणां भगवन्तो ! जल्पत दुर्विकल्पस्य । निश्चयतः किमपि फलं केवलक्रियाया अस्ति न वा १ || ६ || तेन बाणारसीकेन पृष्टं-हे भगवन्तो ! ज्ञाननिधयो वदत यूयं दुष्टाः पापहेतवो विकल्पा- मनोरथा यस्य तस्य पुंसः निश्चय For Private and Personal Use Only जन्मतोद्भवे हेतुः ॥ ७ ॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy