________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
जल्प
॥१९॥
समाधाने माकालद्रव्य
HARASHTRA
वाच्यं, पुद्गलस्यापि तदभावप्रसंगात्, प्रदेशमात्रत्वं अप्रदेशमिति तल्लक्षणस्य तत्रापि विद्यमानत्वात्, अथ पुद्गलस्यास्ति अप्रदेशत्वं द्रव्येण परं पर्यायेण तु अनेकप्रदेशत्वमप्यस्ति, कालस्य तु नैतदिति चेत्, न, अनेनापि प्रसंगापराकरणाद, न हि नि मत्वेन पर्वतेऽनग्निमत्त्वे प्रसन्यमाने यत्किंचिद्धर्माभावे तदभावः प्रतीयते इति स्थितं तिर्यक्प्रचयप्रसंगेन, न चैतत् समयद्रयाणामा-1 नन्त्येऽपि तुल्यं, तदानन्स्यस्थ अतीवानागतापेक्षया स्वीकारात्, यदुक्तमुत्तराध्ययने- 'एमेव संतई पप्प इति, तवृत्तौ वादिवैतालापस्मामधेयाः श्रीशान्तिसूरयोऽप्याहु:-कालस्यानन्त्यमतीतानागतापेक्षये'ति, श्रीभगवतीवृत्तौ श्रीअभयदेवसू२ कालो द्विविधः परमार्थव्यवहारभेदेन, सत्रायः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनो मुख्योपचारप्रदेशकल्पनाभावान्नित्वयवाः, तत्र मुख्यप्रदेशकल्पना धर्मादिद्रव्यचतुष्टये पुद्रलस्कन्धेषु च, सपचारप्रदेशकल्पना परमाणुषु अपयशकियोगात् , कालाणुषु द्वयं न, नवा विनाशहेत्वमावान्नित्याः परिणामषड्दव्यपर्यायवर्तनाहेतुत्वाकामित्याः, रूपाचमावादमूर्ताः, जविप्रदेशवन्, प्रदेशान्तरसंक्रमणाभावात् निष्कियाः, त एव परमार्थकाल इति भावनासंग्रहे। काळवर्तनया मुख्यकालेन लब्धः कालव्यपदेशः, परिणामादिलक्षणः कुतश्चित् परिच्छिन्नः अपरिच्छिन्नस्य मुख्यकालस्य परिच्छेदहेतुभूतो वर्तमानो भविष्यान्निति त्रिविधो व्यवहारकार, परस्परापेक्षत्वात् , यथा वृक्षपंक्तिमनुसरतो देवदत्तस्य एकैकतरं प्रति प्राप्तः प्राप्नुवन् प्राफ्यन् व्यपदेशः, तथा कालाणूननुसरतां द्रव्याणां वर्चमानपर्ययमनुभक्तां भूतादिव्यवहार इति भावनासंग्रहे । अत्र यचीप पुद्गलपरमाणुः प्रदेशमात्रत्वेनाप्रदेशस्तथापि बेलनशक्त्याउनेकप्रवेशत्वं, कालस्यान्योऽन्त्यमेळनशक्तेरभावादप्रवेशत्वमेव, न पुनः पुगलवदोषचारिकमपि सप्रदेशत्वम् ।।
5555
॥१९॥
For Private and Personal Use Only