SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः। [आचाराध्यायः याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः॥२०३॥ प्रतिदिवसं शक्त्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतोऽधिकं यत्नेन दातव्यम् । याचितेनापि श्रद्धापूतमनसूयापवित्रीकृतं शक्त्या दातव्यम् । याचितेनापि दातव्यमिति वदता यथोक्तं पात्रं स्वयमेव गत्वा आहूय वा यहानं तन्महाफलमुक्तम् । तथाच स्मरणम्-'गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम् । सहस्रगुणमाहूय याचिते तु तदर्धकम्' इतिः ॥ २०३ ॥ गवादिकं देयमित्युक्तं तत्र गोदाने विशेषमाह हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता। सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥२०४॥ हेममये शृङ्गे यस्याः सा हेमशृङ्गी । शफैः खुरैः रौप्यैः राजतैः संयुता वस्त्रेण च संयुता कांस्यपात्रसहिता बहुक्षीरी सुशीला गौर्यथाक्तिदक्षिणासहिता दातव्या ॥ २०४ ॥ गोदानफलमाह दातास्याः स्वर्गमाप्नोति वत्सरानोमसंमितान् । कपिला चेत्तारयति भूयश्वासप्तमं कुलम् ।। २०५॥ अस्या गोः रोमसंमितान् रोमसंख्याकान्वत्सरान्स्वर्गमामोति दाता। सा यदि कपिला तदा न केवलं दातारं तारयति किंतु कुलमपि आसप्तमं सप्तममभिव्याप्य पित्रादीन्षद आत्मानं च सप्तमम् । अप्यर्थे भूयःशब्दः ॥ २०५ ॥ उभयतोमुखीदानफलम् - सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् । दातास्याः स्वर्गमानोति पूर्वेण विधिना ददत् ।। २०६ ।। सवत्सारोमतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोमतुल्यानि वत्सस्य गोश्च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतोमुखीं ददत्स्वर्गमामोत्यनुभवति पूर्वेण विधिना दाता चेत् ॥ २०६ ॥ का पुनरुभयतोमुखी कथं तावत्तद्दानं महाफलमित्यत आह यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते । तावद्गौः पृथिवी ज्ञेया यावद्गर्भ न मुञ्चति ॥ २०७॥ गर्भान्निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावत्कालं उभयतोमुखमस्या अस्तीत्युभयतोमुखी। यावत्कालं गर्भ न मुञ्चति तावत्सा गौः पृथिवीसमा ज्ञेया। अतः फलातिशयो युक्तः ॥ २०७ ॥ १ खुरै रूप्यैः ख. २ बहुक्षीरा गौर्यथा. क. ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy