SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानप्रकरणम् ९] . मिताक्षरासहिता । ध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्योऽपि क्रियापरा विहितानुष्ठानशीलाः। तेभ्योऽप्यध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमादियोगेनारमतत्त्वज्ञाननिरताः श्रेष्ठा इत्यनुषज्यते ॥ १९९ ॥ एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनैकैकयोगेनं पात्रताममिधायाधुना तेषां समुच्चये संपूर्णपात्रतामाह न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ २०० ॥ केवलया विद्यया श्रुताध्ययनसंपत्त्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । अपिशब्दात्केवलेनानुष्ठानेन केवेलया जात्या वा नैव संपूर्णपात्रता । कथं तर्हि । यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्तः जमदाड्राह्मणजातिश्च तदेव मन्वादिभिः संपूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुस्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्यं द्रष्टव्यम् ॥ २०॥ सत्पात्रे गवादिदानं देयम् गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् । नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ।। २०१॥ पूर्वोक्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदेकदानादीतिकर्तव्यासहितं देयम् । भपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेष जानता श्रेयः संपूर्णफलमिच्छता किंचिदल्पमपि न दातव्यम् । श्रेयोग्रहणादपात्रदा. नेऽपि किमपि तामसं फलमस्तीति सूचितम् । यथाह कृष्णद्वैपायन:-'अदेशकाले यहानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥' इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्यासन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तस्सै प्रतिश्रवणं वा कृत्वा समर्पयेत् नत्वपात्रे दात. व्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम्'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥ अपात्रे दातुनिषेधमुक्त्वा प्रतिग्रहीतारं प्रत्याह विद्यातपोभ्यां हीनेन नतु ग्राह्यः प्रतिग्रहः। गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥ २०२ ॥ विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर्न ग्राह्यः । यस्माद्विद्याविहीनः प्रतिगृह्णन् दातारमात्मानं चाधो नरकं नयति प्रापयतीति ॥ २०२॥ गवादि पात्रे दातव्यमित्युक्तं तत्र विशेषमाह दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । १ योगे पात्रतां ग. २ केवलजात्या क. ३ दकपाद्यादीति क. ४ किंचित्तामसं क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy