SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९२ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः एतदृषिभिर्भाषितं श्रुत्वा योगीन्द्रोऽपि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थनोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य भवत्प्रार्थितं सकलमित्थं भवत्वित्येवं किल भगवान्बभाषे ॥ ३३४ ॥ इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्र विवृतो प्रायश्चित्ताध्यायस्तृतीयः समाप्तः ॥ अथात्राध्यायानुक्रमणिका लिख्यते । तत्राद्यं सूतकप्रकरणम् १ । आपद्धर्मप्रकरणम् २ । वानप्रस्थप्रकरणम् ३ । अध्यात्मप्रकरणम् ४ । ततः प्रायश्चित्तप्रकरणम् ५। तत्रादौ कर्मविपाकः ६। महापातकादि निमित्तपरिगणनम् ७ । महापातकप्रायश्चित्तान्यातिदेशिकसहितानि ८ । उपपातकप्रायश्चित्तानि ९ । प्रकीर्णकप्रायश्चित्तप्रकरणम् १० । पतितत्यागविधिः ११ । व्रतग्रहणविधिः १२। रहस्यप्रायश्चित्ताधिकारः १३ । कृच्छ्रादिलक्षणम् १४ । इति प्रकरणानि ॥ उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः। धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥ इति याज्ञवल्क्यमुनिशास्त्रगता विवृतिन कस्य विहिता विदुषः । प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ २॥ गम्भीराभिः प्रसन्नाभिर्वाग्भिवस्ता मिताक्षरा । अनल्पार्थाभिरल्पाभिर्विवृतिर्विहिता मया ॥ ३ ॥ नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः । विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम श्चाकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥ ४ ॥ स्नष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीनां दातार्थानामतिशयजुषामर्थिसार्थार्थनायाः। ध्याता मूर्तेर्मुरविजयिनो जीवतादार्कचन्द्र जेतारीणां तनुसहभुवां तत्वविज्ञाननाथः ॥ ५॥ आ सेतोः कीर्तिराशे रघुकुलतिलकस्या च शैलाधिराजा दो च प्रत्यक्पयोधेश्चटुलतिमिकुलोत्तुङ्गरिङ्गत्तरङ्गात् । आ च प्राचः समुद्रानतनृपतिशिरोरतभाभासुराभिः पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः ॥ ६ ॥ अन्तर्मुखानि यदि खानि तपस्ततः किं नान्तर्मुखानि यदि खानि तपस्ततः किम् । अन्तर्बहिर्यदि हरिश्च तपस्ततः किं नान्तर्वहिर्यदि हरिश्च तपस्ततः किम् ॥७॥ समाप्तेयं समिताक्षरा याज्ञवल्क्यस्मृतिः ॥ १ दन्योपमामाकल्पं ऊ. २ मधुलवमुचां ङ. ३ मार्थनामर्थितायाः. ४ यावत्प्रत्यकू. ५ प्राचीसमुद्रादमितनृपशिरोरत्न. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy