SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः पदाभिप्यं प्रारिप्सुः प्रथमतस्तत्प्ररोचनार्थमधिकारिविशेपप्रदर्शनार्थं चार्थवादरूपं कर्म विपाकं तावदाह - महापातकजान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह || २०६ | ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा ब्रह्महा मद्यप इत्यत्र वक्ष्यते तद्योगिनो महापातकिनस्ते महापातकजनितांस्तामिखा दिनरकान्स्वज नितदुष्कृतानुरूपान् घोरानातितीव्र वेदना पादकत्वेनातिभयंकरान्दारुणान्दुः खैकभोगनिलयान्प्राप्य कमैक्षयात् कर्मजन्य नरकदुःखोपभोगक्षयादनन्तरं कर्मशेपात्पुनरिह संसारे दुःखबहुलश्वसृगालादितिर्यग्योनिषु प्रकर्षेण भूयोभूयो जायन्ते । महापातकिग्रहणमितरेषामप्युपपातक्यादीनामुपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर्वक्ष्य माणत्वात् ॥ २०६ ॥ महापातकिनां संसारप्राप्तिमुक्त्वा तद्विशेषकथनायाह- मृगaangri ब्रह्मा योनिमृच्छति । खरपुल्कसवेणानां सुरापो नात्र संशयः ॥ २०७ ॥ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् 1 तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ २०८ ॥ १ वेनानां ख. मृगा हरिणादयः श्वसूकरोष्ट्राः प्रसिद्धाः तेषां योनिं ब्रह्मा स्वकर्मशेषेण प्रानोति । खरो रासभः पुल्कसः प्रतिलोम निषादेन शूद्र्यां जातः वैदेहकेनाम्बष्ठयां जातो वेणस्तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीय संभोगनिरपेक्षा मांसविष्ठा गोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः पिपीलिकादयः कीटाः पतङ्गाः शलभाः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मलते प्रागुक्ते, तजातीयतां क्रमेण गुरुतल्पगः प्रामोति । एतच्चाकामकृतविषयम् । कामकारकृते त्वन्यास्वपि दुःखबहुलयोनिपु संसरन्ति । यथाह मनुः ( १२/५५-५८ ) - 'श्वसूकरखरोष्ट्राणां गोवाजिमृगपक्षिणाम् । चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्वानां सुरापो ब्राह्मणो व्रजेत् ॥ लूताऽहिसरठानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ लूतोर्णनाभः । सरठः कृकलासः ।—'तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥' इति ॥ २०७ ॥ २०८ ॥ एवं च तिर्यक्त्वादुत्तीर्णानां मानुष्ये रोगादि लक्षणानि भवन्तीत्याहब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । २ योनीः ख ३ गोजाविमृगपक्षिणामिति पाठः ४ पुष्कसानां च ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy