SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । योगशब्दवाच्यास्ताश्च धारयेत् । यथोक्तमन्यत्र-'संभ्रम्य च्छोटिकां दद्यात्कराग्रं जानुमण्डले । मात्राभिः पञ्चदशभिः प्राणायामोऽधमः स्मृतः ॥ मध्यमो द्विगुणः श्रेष्ठस्त्रिगुणो धारणा तथा। त्रिमिस्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव च ॥' इति ॥ १९४-२०१॥ धारणात्मकयोगाभ्यासे प्रयोजनमाह अन्तर्धानं स्मृतिः कान्तिदृष्टिः श्रोत्रज्ञता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ॥ २०२ ॥ अर्थानां छन्दतः सृष्टियोगसिद्धेश्व लक्षणम् । सिद्ध योगे त्यजन्देहममृतत्वाय कल्पते ॥ २०३ ॥ अणिमप्राप्या परैरदृश्यत्वमन्तर्धानम् । स्मृतिरतीन्द्रियेष्वर्थेषु मन्वादेरिव स्मरणम् । कान्तिः कमनीयता । दृष्टिरतीतानागतेष्वप्यर्थेषु । तथा श्रोत्रज्ञता अतिदवीयसि देशेऽभिव्यज्यमानतया श्रोत्रपथमनासेदुषामपि शब्दानां ज्ञातृता । निजशरीरत्यागेन परशरीरप्रवेशनम् । स्ववान्छावशेनार्थानां कारणनिर. पेक्षतया सृष्टिरित्येतद्योगस्य सिद्धलक्षणं लिङ्गम् । नचैतावदेव प्रयोजनं किंतु सिद्धे योगे त्यजन्देहममृतत्वाय कल्पते ब्रह्मत्वप्राप्तये च प्रभवति ॥२०२॥२०३॥ यज्ञदानाद्यसंभवे सत्वशुद्धावुपायान्तरमाह अथवाप्यभ्यसन्वेदं न्यस्तकर्मा वने वसन् । अयाचिताशी मितभुक्परां सिद्धिमवाप्नुयात् ॥ २०४॥ अथवा त्यक्तकाम्यनिषिद्धकर्मा अन्यतमं वेदमभ्यसन् एकान्तशीलोऽया. चितमिताशनापादितसत्तशुद्धिरात्मोपासनेन परां मुक्तिलक्षणां सिद्धि प्राप्नोति ॥ न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ २०५॥ किंच । सत्प्रतिग्रहादिन्यायेनोपार्जितधनः अतिथिपूजातत्परः नित्यनैमित्तिक. श्राद्धानुष्ठान निरतः सत्यवदनशीलः सन्नात्मतत्त्वध्याननिरतो गृहस्थोऽपि हि यस्मान्मुक्तिमवाप्नोति तस्मान्न केवलमैहिकपारिवाज्यपरिग्रह एव मुक्तिसाधनम् ॥ इत्यध्यात्मप्रकरणम् । अथ प्रायश्चित्तप्रकरणम् ५ 'वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः' इत्यन्न प्रतिपाद्यतया प्रतिज्ञातषद्धिधधर्ममध्ये पञ्चप्रकारं धर्ममभिधायाधुनाऽवशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्त १ सिद्धेर्हि, सिद्धिर्हि ख. २ अणिमाप्राप्त्या ख. ३ करणनिरपेक्ष ख. ४ पारिव्रज्य ख. या० ३४ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy