SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः रूपेण कारणकलापेन गर्भस्याङ्गहीनत्वादिविकारो जन्मन औरभ्यानियतकालो दृष्टः ॥ १६३ ॥ ननु प्राकृतिक प्रलयावसरे महदाद्यखिलविकार विनाशे कर्मणो नाशात्कथं तनिबन्धनः प्रथमपिण्डपरिग्रह इत्याशङ्कयाह - अहंकारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ १६४ ॥ मनोहंकारौ प्रसिद्धौ । गतिः संसरणहेतुभूतो दोषराशिः । कर्मफलं धर्माधर्मरूपम् । शरीरं लिङ्गात्मकं एतैरहंकारादिभिरयमात्मा कदाचिदपि न मुच्यते यावन्मोक्षः ॥ १६४ ॥ ननु प्रतिनियतकर्मणां जीवानां प्रतिनियतकालमेवोपरतिर्युक्ता न पुनः संग्रामादौ युगपदकाले प्राणसंक्षय इत्याशङ्कयाह वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः । विक्रियापि च दृष्टैवमकाले प्राणसंक्षयः ।। १६५ ॥ यथा हि खलु तैलक्लिन्नानेकेवर्तिवर्तिनीनां नानाज्वालानां युगपत्संस्थितिः तासां च स्थितानां तदुत्तरं दोधूयमानपवनाहतिरूपविपत्तिहेतू पनि पातयौगपद्याद्युगपदुपरतिर्यथा भवति तथैव रथिसारथिवाजिकुञ्जरादिजीवानां युद्धाख्योपरति हेतुयौगपद्यादकालेऽपि प्राणपरिक्षयो नानुपपन्नः । एतदुक्तं भवति । प्रतिनियत कालविपत्तिहेतुभूतादृष्टस्य तद्विरुद्ध कार्यकरदृष्टहेतूप निपातेन प्रतिबन्ध इति ॥ १६५ ॥ मोक्षमार्गमाह अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कैर्बुरूपाः कपिला नीललोहिताः ॥ १६६ ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥ १६७ ॥ योsit हृदि प्रदीपवस्थितो जीवस्तस्यानन्ता रश्मयो नाड्यः सुखदुःख हेतुभूताः 'द्वासप्ततिसहस्राणी' त्यादिनोक्ताः सितासित कर्बुरादिरूपाः सर्वतः स्थिता - स्तेषामेको रश्मिरूर्ध्व व्यवस्थितः योऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भनिलयं चातिक्रम्य वर्तते तेन जीवः परां गतिमपुनरावृत्तिलक्षणां प्राप्नोति ॥ १६७ ॥ स्वर्गमार्गमाह यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् । तेन देवशरीराणि सधामानि प्रपद्यते ।। १६८ ॥ १ आरभ्यनियत ङ. २ नेकवर्तिनीनां ङ. ३ स्थितानां पटुतरदोधूयमान ङ. ४ कर्बुनीलाः कपिलाः पीतलोहिताः ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy