SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता। ३५९ नालोकनालम्भयोः परित्यागः । सर्वभूतेष्वात्मवदर्शनं समत्वदर्शनम् । परिग्रहाणां च पुत्रक्षेत्रकलनादीनां त्यागः। जीर्णकाषायधारणम् । तथा शब्दस्पर्शादिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधः । तन्द्रा निद्रानुकारिणी । आलस्यमनुत्साहः तयोर्विशेषेण त्यागः । शरीरस्य परिसंख्यानमस्थिराशुचित्वादिदोषानु. संधानम् । तथा सकलगमनादिषु प्रवृत्तिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः। तथा रजस्तमोविधुरता प्राणायामादिभिर्भावशुद्धिः। निःस्पृहता विषयेष्वनभिलाषः । शमो बाह्यान्तःकरणसंयमः। एतैराचार्योपासनादिभिरुपायैः सम्यक् शुद्धः केवलसत्वयुको ब्रह्मोपासनेनामृती भवेत् मुक्तो भवति ॥ १५६-१५९ ॥ कथममृतत्वप्राप्तिरित्यत आह तत्त्वस्मृतरुपस्थानात्सत्वयोगात्परिक्षयात् । कर्मणां संनिकर्षाच सतां योगः प्रवर्तते ॥ १६०॥ आत्माख्यतत्त्वस्मृतेरात्मनि निश्चलतयोपस्थानात् सत्वशुद्धियोगात्केवलसत्वगुणयोगात्कर्मबीजानां परिक्षयात् सत्पुरुषाणां च संबन्धात् आत्मयोगः प्रवर्तते ॥ १६०॥ शरीरसंक्षये यस्य मनः सत्वस्थमीश्वरम् । अविप्लुतमतिः सम्यग्जातिसंस्मरतामियात् ॥ १६१ ॥ किंच । यस्य पुनर्योगिनोऽविप्लुतमतेः शरीरसंक्षयसमये मनः सत्वयुक्तं सम्यगेकाग्रतयेश्वरं प्रति व्याप्रियते स यधुपासनाप्रयोगाप्रवीणतयात्मानं नाधिगच्छति तर्हि विशिष्टसंस्कारपाटववशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भवासादिसमुद्भूतदुःखस्मरत्वं प्राप्नुयात् । तत्स्मरणेन च जातोद्वेगतस्तद्विच्छेदकारिणि मोक्षे प्रवर्तते ॥ १६१ ॥ यस्त्वंपटुसंस्कारतया पूर्वी जातिं न स्मरति तस्य का गतिरित्यत्राह यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ १६२ ॥ भरतो नटः स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीतादिभिवणैरात्मनस्तनुं वर्णयति रचयति तथैवात्मा तत्तत्कर्मफलोपभोगार्थ कुजवामनादिनानारूपाणि कर्मनिमित्तानि कलेवराण्यादत्ते ॥ १६२ ॥ कालकर्मात्मवीजानां दोषैर्मातस्तथैव च । गर्भस्य वैकृतं दृष्टमङ्गहीनादि जन्मतः ॥ १६३ ॥ किंच । न केवलं कर्मैव कुलवामनत्वादिनिमित्तं किंतु कालकर्मणि स्वका. रणपितृबीजदोषो मातृदोषश्चेति सर्वमेतत्सहकारिकारणम् । एतेन दृष्टादृष्टस्त्र १ यत्स्वयं दुःसंस्कार ख. २ स्वपितृकारणबीज ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy