SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ याज्ञवल्क्यस्मृतिः [ व्यवहाराध्यायः ( ८/३९६ ) - ' शाल्मलीफलके लक्षणे निज्याद्वासांसि नेजकः । नच वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥' इति मनुस्मरणात् ॥ यदा पुनः प्रमादात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्- 'मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः । द्विःपादस्त्रिस्तृतीयांशश्चतुधतेऽर्धमेव च ॥ अर्धक्षयात्तु परतः पादांशापचयः क्रमात् । यावत्क्षीणदशं जीर्ण जीर्णस्थानियमः क्षयः ॥' इति । अष्टपण तस्य सकृद्धौतस्य वस्त्रस्य नाशितस्याष्टमभागपणानं मूल्यं देयम् । द्विधतस्य तु पादोनं पणद्वयोनं त्रिर्धीतस्य पुनस्तृतीयांशन्यूनम् । चतुधतस्यार्धं पणचतुष्टयं देयम् । ततः परं प्रति निर्णेजनमवशिष्टं मूल्यं पादपादापचयेन देयम् । यावज्जीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २३८ ॥ पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥ २३९ ॥ पितापुत्रयोः कलहे यः साक्ष्यमङ्गीकरोति न पुनः कलहं निवारयति असौ पणन्त्रयं दण्ड्यः । यश्च तयोः सपणे विवादे पणदाने प्रतिभूर्भवत्यसौ चकारात्तयोर्यः कलहं वर्धयति सोऽपि त्रिपणादष्टगुणं चतुर्विंशतिपणान्दण्डनीयः । दम्प त्यादिष्वयमेव दण्डोऽनुसरणीयः ॥ २३९ ॥ तुलाशासनमानानां कूटकृन्नाणकस्य च । एभिश्च व्यवहर्ता यः स दाप्यो दममुत्तमम् ॥ २४० ॥ तुला तोलनदण्डः । शासनं पूर्वोक्तम् । मानं प्रस्थद्रोणादि । नाणकं मुद्रादिचिह्नितं द्रम्मनिष्कादि । एतेषां यः कूटकृत् देशप्रसिद्ध परिमाणादन्यथा न्यूनवमाधिक्यं वा द्रम्मादेरव्यवहारिकमुद्रात्वं ताम्रादिगर्भत्वं वा करोति यश्च तैः कूटैर्जानन्नपि व्यवहरति तावुभौ प्रत्येकमुत्तमसाहसं दण्डनीयौ ॥ २४० ॥ नाणकपरीक्षिणं प्रत्याह अकूटं कूटकं ब्रूते कूटं यथाप्यकूटकम् । स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् || २४१ ॥ यः पुनर्नाणकपरीक्षी ताम्रादिगर्भमेव द्रम्मादिकं सम्यगिति ब्रूते सम्यक् वा कूटकमिति असावुत्तमसाहसं दण्ड्यः ॥ २४१ ॥ चिकित्सकं प्रत्याह भिषग्मिथ्याचरन्दण्ड्यस्तिर्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥ २४२ ॥ यः पुनर्भिषक् मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थं चिकित्सितज्ञोऽहमिति तिर्यानुध्यराजपुरुषेषु चिकित्सामाचरत्यसौ यथाक्रमेण प्रथममध्यमोत्तमसाह १ अष्टमभागोनं पणं मूल्यं खध. २ पादाद्यपचयेन ख. ३ व्यावहारिकमुद्रितत्वं व. ४ चरन्दाप्यः घ. ५ राजमानुषे तूत्तमं व. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy