SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपनिधिप्रकरणम् ४] मिताक्षरासहिता । तमुपनिधिं राज्ञा देवेनोदकादिना तस्करैर्वापहृतं नष्टं न दाप्योऽसौ यस्मिनुपहितं । धनिन एव तद्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः'प्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः । देवराजकृते तद्वन्न चेत्तजिह्मकारितम् ॥' इति ॥ अस्यापवादमाह भ्रेषश्वेन्मानितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥६६॥ स्वामिना मागिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजादिभिभ्रषो नाशः संजातस्तथापि तद्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ ६६ ॥ भोक्तारं प्रति दण्डमाह आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् । यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजीअपभुले व्यवहरति वा प्रयोगादिना लाभार्थमसावुपभोगानुसारेण लाभानुसारेण च दण्ड्यस्तं चोपनिधि सोदयमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धिप्रमाणं च कात्यायनेनोक्तम्-'निक्षेपं वृद्धिशेषं च क्रय विक्रयमेव च । याच्यमानो न चेद्दद्याद्वर्धते पञ्चकं शतम् ॥' इति । एतच्च भक्षिते द्रष्टव्यम् । उपेक्षाशाननष्टे तु तेनैव विशेषो दर्शितः-'भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचियूनं प्रदाप्यः स्याद्रव्यमज्ञाननाशितम् ॥' इति । किंचिन्यूनमिति चतुर्थीशहीनम् ॥ उपनिधेर्धर्मान्याचितादिष्वतिदिशति याचितावाहितन्यासनिपेक्षादिष्वयं विधिः ॥ ६७ ॥ विवाहाद्युत्सवेषु वस्त्रालंकारादि याचित्वानीतं याचितम् । यदेकस्य हस्ते निहितं द्रव्यं तेनाप्यनु पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् । न्यासो नाम गृहस्वामिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणीयमिति । समक्षं तु समर्पणं निक्षेपः। आदिशब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्परप्रयोज॑नापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति न्यस्तस्य ग्रहणम् । यथाह नारदः-'एष एव विधिदृष्टो याचितान्वाहितादिषु । शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥' इति । एतेषु याचितान्वाहितादिष्वयं विधिः । उपनिधेर्यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ ६७ ॥ इति उपनिधिप्रकरणम् । १ तद्भवेत्तज्जिा ख. तद्वद्भवेदाजिह्मेत्यपि पाठः. २ आजीवत्युप ख. आजीवन्फलं भुंक्ते ग. ३ याच्यमानं ग. ४ पेक्षायां त्वयेदं ख. या. १७ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy