SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ व्योमवत्यां सचिवेन एकगुणज्ञानेन संस्कारान्तरस्योत्पद्यमानता, द्वित्वगुणस्य विनाश इत्येकः कालः । (८) ततः स्मरणस्योत्पादः, संस्कारस्योत्पादः, एकगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततस्वित्वगुणस्योत्पद्यमानता, द्रव्य5 ज्ञानस्य विनाश इत्येकः काल: । (९) ततस्त्रित्वगुणस्योत्पादः, तज्ज्ञानस्योत्पद्यमानता, एकगुणज्ञानस्य विनाश इत्येक: काल:। (१०) ततस्त्रित्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, स्मरणस्य विनश्यत्तेत्येकः काल: । (११) ततो द्रव्यज्ञानस्योत्पादः, गुणज्ञानस्य विनश्यत्ता, स्मरणस्य विनाशः, तद्विनाशात् त्रित्वगुणस्य विनश्यत्ता, चतुर्थंकगुणज्ञानस्योत्पद्यमानतेत्येकः काल: । (१२) ततश्चतुर्थंकगणज्ञानस्योत्पादः, द्रव्यज्ञानस्य विनश्यत्ता, गुणज्ञानस्य विनाशः, त्रित्वगुणविनाशः, संस्कारस्योत्पद्यमानतेत्ययं क्रमश्चतु15_ष्टवादिष्वप्यूह्यस्तावद् यावदन्त्यद्रव्यैकगुणे ज्ञानं कल्पनया तत्संस्कारेण च स्मरणस्योत्पद्यमानतेति । (१३) ततः प्राक्तनाशेषैकगुणविषयस्मरणस्योत्पादः, अन्त्यद्रव्यैकगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततः शतसंख्याया उत्पद्यमानतेत्येकः कालः । (१४) ततः शतसंख्याया उत्पत्तिः, तज्ज्ञानस्योत्पद्यमानता, अन्त्यद्रव्यस्यैकगुणज्ञानस्य विनाश इत्येकः कालः । (१५) ततो गुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता स्मरणस्य विनश्यत्तेत्येकः काल: । (१६) तदनन्तरम् ‘एतानि शतम्' इति द्रव्यज्ञानस्योत्पादः, गुण25 ज्ञानस्य विनश्यत्ता, संस्कारस्योत्पद्यमानता, स्मरणस्य विनाशः, तदनन्तरं संस्काराद् द्रव्यज्ञानस्यापीति । 20 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy