SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाकजोत्पत्तिप्रकरणम् २९ कालम् अपेक्ष्य कारणयोर्वर्तमानो विभागः कार्यसंयुक्ताकाशदेशेन विभागमारभत इति व्याख्यातम्, तदा श्यामादिनिवृत्तिसमकालं विभागजविभागसञ्चिन्तनात् दशमे क्षणे द्वयणुके रूपाद्युत्पत्तिरिति चिन्तनीयम् ।। तथा च द्वयणुकविनाशे श्यामादिनिवृत्तिः, ततो रक्ताद्य त्पत्तिः, उत्तरसंयोगः, क्रियाविभागसंयोगविनाशः, परमाणूनाञ्च संयोगाद् व्यणुकोत्पत्तो कारणगुणपूर्वप्रक्रमेण रूपाद्य त्पत्तिरिति । शेषं पूर्ववदिति । इदमेकस्मिन् परमाणौ द्रव्योत्पादिका तद्विनाशिकेति च क्रियाद्वयमधिकृत्योक्तम् । यदा त्वेकस्मिन् परमाणौ द्रव्यविनाशिकान्यस्मिश्च द्रव्योत्पादिकेष्यते तदा कथम् ? (१) तत्र द्रव्यारम्भकसंयोगविनाशसमकालं द्वितीयपरमाणौ द्रव्या- 10 रम्भकं कर्म, ततो द्रव्यारम्भकसंयोगविनाशाद् व्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामाधु च्छेदकाग्निसंयोगस्योत्पादः, श्यामादीनामुच्छिद्यमानता, रक्ताद्य त्पादकाग्निसंयोगस्योत्पद्यमानता, विभागजविभागस्योत्पादः, परमाणोराकाशादिदेशेन संयोगस्य विनश्यत्ता, द्वितीयपरमाणी विभागस्योत्पादः प्राक्तनसंयोगस्य विनश्यत्तेत्येषामेकः कालः । (२) ततस्त्र्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, तदुच्छेदकाग्निसंयोगस्य विनश्यत्ता, रक्ताद्य त्पादकाग्निसंयोगस्योत्पादः, रक्तादीनामुत्पद्यमानता, आकाशद्व्यणुकसंयोगस्य विनाशः, तस्य परमाणोराकाशादिदेशेन संयोगस्योत्पद्यमानता, द्वितीयपरमाणौ प्राक्तनसंयोगविनाशः, परमाणुना च संयोगस्योत्पद्यमानतेत्येषामेकः कालः। 20 (३) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, श्यामाद्य च्छेदकाग्निसंयोगस्य विनाशः, रक्तादीनामुत्पादः, परमाणोराकाशादिदेशेन संयोगस्योत्पादः, विभागजविभागकर्मणोविनश्यत्ता, द्वितीयस्य परमाणोः परमाण्वन्तरेण संयोगस्योत्पादः, तद्विभागकर्मणोविनश्यत्ता, व्यणुकस्योत्पद्यमानतेत्येषामेकः कालः । (४) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, विभागजविभागकर्मणां विनाशः, द्वितीयपरमाणावपि विभागकर्मणोविनाशः, व्यणु 15 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy