SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ व्योमवत्यां अत्र तु कियता कालेन व्यणुके रूपाद्युत्पत्तिरिति क्रिया निरूप्यते । (१) तत्र स्वकारणाद् व्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामाद्य च्छेदकाग्निसंयोगस्योत्पादः, श्यामादीनां विनश्यत्ता, रक्ताद्य त्पाद काग्निसंयोगस्योत्पद्यमानता, विभागजविभागस्योत्पादः, परमाण्वोराकाशादि5 देशेन संयोगस्य विनश्यत्तेत्येषामेकः कालः । (२) ततस्त्र्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, श्यामाद्य च्छेदकाग्निसंयोगस्य विनश्यत्ता, रक्ताधु त्पादकाग्निसंयोगस्योत्पादः, रक्तादीनामुत्पद्यमानता, आकाशद्व्यणुकसंयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानतेत्येषामेकः काल: ।। (३) ततस्तत्कार्यस्य विनाशात् तत्कार्यस्य विनश्यत्ता, श्यामाद्य च्छेदकाग्निसंयोगस्य विनाशः, रक्तादीनामुत्पादः, रक्ताद्युत्पादकाग्निसंयोगस्य विनश्यत्ता, तथोत्तरसंयोगस्येत्पादः, विभागविभागजविभागकर्मणां विनश्यत्ता, क्रियाया उत्पद्यमानतेत्येषामेकः कालः । (४) ततस्तत्कार्यविनाशः, तत्कार्यस्य विनश्यत्ता, विभागविभागज15 विभागकर्मणां विनाश:, रक्ताद्य त्पादकाग्निसंयोगस्य विनाशः, क्रियाया उत्पादः, विभागस्योत्पद्यमानतेत्येषामेक: काल: । (५) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, विभागस्योत्पादः, संयोगस्य विनश्यत्तेत्येषामेकः कालः । (६) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, संयोगस्य विनाशः, 20 उत्तरसंयोगस्योत्पद्यमानतेत्येकः काल: । (७) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, उत्तरसंयोगस्योत्पादः, द्वयणुकस्योत्पद्यमानता, विभागकर्मणोविनश्यत्त्येत्येषामेकः कालः । (८) ततस्तत्कार्यस्य विनाशात् तत्कार्यस्य विनश्यत्ता, द्वयणुकस्योत्पादः, रूपादीनामुत्पद्यमानता, विभागकर्मणोविनाश इत्येषामेकः कालः ।। (९) तत उत्पन्ने द्वयणुके कारणगुणपूर्वप्रक्रमेण नवमे क्षणे रूपाद्य त्पत्तिरिति। यदा तु कार्यविनाशविशिष्टं [कालम्] अपेक्ष्येत्यस्य द्रव्यनाशविशिष्टं For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy