SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ व्योमवत्यां शेषाणामयावद् व्यभावित्वञ्चेति । ___ इदानीं केषां प्रदेशवृत्तित्वमाश्रयव्यापित्वञ्चेत्याह *संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वम* आश्रयाव्यापकत्वं विवक्षितम् । न तु प्रदेशेऽवयव वृत्तिः, निष्प्रदेशानां तदभावप्रसङ्गात् । एतेषामेवाश्रया5 व्यापित्वम्, एतेषां प्रदेशवृत्तित्वमेव । *शेषाणामाश्रयव्यापित्वम् इति। उक्तभ्योऽन्ये शेषास्तेषामाश्रयव्यापित्वम् । कथमेतत् ? आश्रयोपलम्भे सति तजिघृक्षायामवश्यं ग्रहणम् । यथा पटोपलम्भे रूपजिघृक्षायामवश्यं तद्ग्रहणमिति । येषान्त्वाश्रया व्यापित्वं न तेषामाश्रयोपलम्भे, सत्यामपि जिघृक्षायामिन्द्रियार्थसन्निकर्षे 10 चावश्यं ग्रहणमस्ति । यथा पर्वतस्यापरभागत्तिनां संयोगो नावश्यं तदुपलम्भेऽप्युपलभ्यत इति । अपाकजादिस्नेहान्तानां यावद्रव्यभावित्वम् इति । यावद्रव्यं भवन्ति तच्छीलाश्चेति यावद्दव्यभाविनस्तेषां भावो यावद्रव्यभावित्वम्, आश्रये सत्यविनाशित्वमिति यावत् । *शेषाणामयाबद्रव्यभावित्वम् इति । उक्तेभ्योऽन्ये शेषास्तेषां सत्यप्याश्रये विनाश इति । इति गुणसाधर्म्यप्रकरणम् । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy