SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणसामान्य साधर्म्यम् बुद्धयादिभावनान्तानां निमित्तकारणत्वम् इति । समवाय्यसमवायिलक्षणरहितस्य जनकत्वम् । न चासिद्धं विशेषणं प्रत्यासन्नस्य बुद्ध्यादेजनकत्वादिति वाच्यम्, पूर्वोक्तन्यायात् । अवधारणन्त्वेतेषां निमित्तकारणत्वमेव, नत्वेतेषामेव । तथाहि बुद्धिर्ज्ञानं संस्कारोत्पत्तौ कारणम्, सुखमिच्छायाः, दुःखं 5 द्वेषस्य, इच्छाद्वेषौ प्रयत्नस्य स च क्रियायाः, धर्माधर्मौ सुखदुःखयोः, भावना स्मरणस्येति । १३ संयोगादिवेगान्तानामु * उभयथा कारणत्वम् इति । असमवायिनिमित्तकारणत्वमिति । एतेषामेवोभयथा कारणत्वम्, तथैतेषामुभयथा कारणत्वमेवेति नियमेन | तथाहि, भेर्याकाशसंयोगस्यासमवायिकारणत्वम्, भेरीदण्ड संयोगस्य निमित्तत्वम् । एवं वंशदलाकाशविभागस्यासमवायिकारणत्वम्, वंशदलविभागस्य निमित्तत्वम् । उष्णस्पर्शस्योत्पत्तावसमवायिकारणत्वम्, पाकजेषु निमित्तत्वम् । एवं गुरुत्वद्रवत्ववेगानां कारणत्वम्, आश्रयान्तरे निमित्तत्वमिति । परत्वापरत्वद्विपृथक्त्वादीनामकारणत्वमित्यादिपदेन त्रिपृथक्त्वादीनां स्वाश्रयक्रियोत्पत्तावसमवायि संयोगविभागशब्दात्म विशेषगुणानां प्रदेशवृत्तित्वम् । शेषाणामाश्रयव्यापित्वम् । अपाकजरूपरसगन्धस्पर्शपरिमाणे करवेक पृथक्त्व सांसिद्धिकद्रवत्वगुरुत्वस्नेहानां यावद्द्रव्यभावित्वम् । For Private And Personal Use Only ग्रहणम् । नन्वेतेषां ज्ञानाद्युत्पत्तावस्त्येव कारणत्वम् ? सत्यम् । तद्व्यतिरेकेणान्यत्राकारणत्वं विवक्षितमिति । समानजातीयारम्भकादिवाक्येऽपीदं विशेषणमूह्यम् । एतेषामकारणत्वमेव, नत्वेतेषामेव, पारिमाण्डल्यादेरप्य- 20 कारणत्वात् । अव्याप्यवृत्तिगुणानां यावद्रव्यभाविगुणानाञ्चोद्देशः 10 15 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy