SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ व्योमवत्यां अथ विशिष्ट वस्तुग्रहणे सति प्रतियोगिस्मरणम्, तहि येन विशेषणेन विशिष्ट तद् वस्तु पूर्व प्रतिपत्तव्यमिति किम् इन्द्रियादेव प्रतीयते, प्रामाणान्तराद् वेति । इन्द्रियादेव प्रतिपत्त्यभ्युपगमे कथं नाभावः प्रत्यक्षविषयो विशिष्टतायास्तद्रूपत्वात् । न चानुमानादेापारे प्रमाणमस्ति । यदि च अन्यया प्रमाणपञ्चकव्यावृत्त्यैव विशिष्टता प्रतीयते, तत्राप्यन्यवस्तुग्रहणाभ्युपगमे विशिष्टताग्रहणमेवाभ्युपेयमित्यनवस्था स्यात् । तस्मादिन्द्रियेणैव इतरपदार्थविविक्तं भूतलमुपलभ्य प्रतियोगिनं स्मरतीत्यभ्युपगमे घटाभावस्य प्रतोतत्वाद् अलं प्रमाणपञ्चकव्यावृत्त्येति । सदंशप्रकाशकस्यैव असदंशेऽप्यन्वयव्यतिरेकाभ्यां व्यापारोपलब्धेर्न 10 प्रमाणपञ्चकापरिच्छेद्ये वस्तुनि अभावस्य प्रमाणतेति वाच्यम् । न चेन्द्रियेण सम्बन्धाभावादग्रहणम्, तस्य कार्यणेव सद्भावसिद्धः । तथा च परेणापि अपरोक्षज्ञानसद्भावेन इन्द्रियार्ययोर्योग्यतालक्षणः सम्बन्धोऽभ्युपगतः, सच रूपादावि[वाभावेऽप्यभ्युपगन्तव्यः, कार्यस्योभयत्राविशेषात् तथा वैशेषिकैरपि अपरोक्षज्ञानसद्भावेन इन्द्रियार्थयोः षोढा सम्बन्धोऽभ्युपगत इत्यभावेन विशेषणविशेष्यभावोऽस्त्येव, तेन हि सता अपरोक्षज्ञानोत्पत्तेः । सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या तु अभावग्रहणे कथं षडेव प्रमाणानीत्यवधारणम्, प्रमाणाग्रह तस्यानुपपत्तेः । न हि सदुपलम्भकप्रमाणाभावस्य परिच्छेद्यत्वे अन्यत् तस्य परिच्छेदकं प्रमाणमस्ति । अथ प्रमाणपञ्चका भावस्यानेकत्वात् कश्चित् कस्यचिद् ग्राहको भवति ? एवं तर्हि तस्याप्यन्येन 20 ग्रहणं तस्याप्यनेनेत्यनवस्था स्यात् । न च प्रमाणव्यक्तेरनेकत्वात् तदग्रहणे तनिष्ठस्य षडेवेत्यवधारणस्य सम्भवः स्यात् । वैशेषिकाणान्तु प्रमाणव्यक्तीनामानन्त्येऽपि एक लक्षणमुपग्राहकमस्तीति युक्तं प्रमाणग्रहणे सत्यवधारणमिति । यच्चेदं देवकुलमात्रं दृष्ट्वा निष्क्रान्तोऽन्येन पृष्टस्तदैव हस्त्यादे25 नास्तिता प्रतिपद्यत इत्युक्तम्, तन्न, अस्य स्मरणत्वात् । यद्यपि पूर्वं हस्ती त्यादि सविकल्पकं ज्ञानं नोत्पन्नम्; तथापि हस्त्याद्यभावविशिष्टे देवकुले निर्वि For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy