SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५०६ (A) एतदेव प्रतिवस्तूपमया दर्शयति- न हि सूर्यस्य प्रकाशं दीपप्रकाशो विशेषयति, न सूर्यप्रकाशाद् दीपप्रकाशोऽधिकतर: किन्तु हीन इत्यर्थः । एवमिहापि यादृशो विषय आगमस्य नैतादृशः शेषाणां व्यवहाराणामिति। आह- यस्मिन् काले गौतमादिभिरिदं सूत्रं कृतं "ववहारे पंचविहे पन्नत्ते" इत्यादि, तदा आगमो विद्यते ततः किं कारणमाज्ञादयोऽपि सूत्रे निबद्धाः? ॥ ३८६३॥ अत्राहसुत्तमणागयविसयं, खेत्तं कालं च पप्प ववहारो। होहिंति न आइल्ला, जा तित्थं जाव जीतो उ ॥ ३८६४॥ सूत्रम् अनागतविषयं भविष्यति स तादृशः कालो यस्मिन्नागमो व्युच्छेत्स्यति ततः शेषैर्व्यवहारैर्व्यवहर्त्तव्यम्। तत्रापि व्यवहारः क्षेत्रं कालं च प्राप्य यो यथा सम्भवति तेन तथा व्यवहरणीयम्। किमुक्तं भवति ? यस्मिन् यस्मिन् काले यो यो व्यवहारोऽव्यवच्छिन्नो व्यवच्छिन्नो वा तदा तदा प्रागुक्तेन क्रमेण व्यवहर्त्तव्यम्। तथा यत्र यत्र क्षेत्रे युगप्रधानैराचार्या या व्यवस्था व्यवस्थापिता तया तया अनिश्रोपश्रितं व्यवहर्त्तव्यम्। अन्यच्च-'आद्या चत्वारो गाथा ३८६४-३८७० आज्ञाऽऽराधना| दिस्वरूपम् |१५०६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy