________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
www.kobatirth.org
तत्र हु निश्चितमपरिणता मा ब्रूयुरेवम् - यथैषोऽनुपस्थापितो मण्डल्यां सम्भुङ्ग, ततः स तदा उपस्थाप्यते । तदनन्तरं सम्भोजनं मण्डल्यामिति ॥ ४६३०॥
दशम
उद्देश :
१७११ (A) |
अहव अणाभोगेणं, सहसक्कारेण वा वि होज्ज संभुत्तो ।
ओमम्म विमा हु तओ, विप्परिणामं तु गच्छेज्जा ॥ ४६३१ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
1
अथवा अनाभोगेन सहसाकारेण वा मण्डल्यां सम्भुक्तो भूयात्, ततो 'मा प्रापदनवस्थाप्रसङ्गः' इति तमूनाष्टवर्षजातमप्युपस्थाप्य मण्डल्यां सम्भोजयेत् । अवमे दुर्भिक्षे जाते मा विपरिणामं गच्छेदिति उपस्थाप्य मण्डल्यां सम्भोज्यते ॥ ४६३१ ॥ एतदेव भावयति— अदिक्खायंति ओमे मं, इमे पच्छन्नभोजिणो ।
परोऽहमिति भावेज्जा, तेणावि सह भुंजते ॥ ४६३२॥
इमे प्रच्छन्नभोजिनो मा अवमे दुर्भिक्षे अदीक्षयन्ति अदीक्षां कर्तुमिच्छन्ति, तेन कारणेनाहं परः कृत इति स भावयेत्, ततः तेनापि सह झटित्येवोपस्थापितेन सम्भुङ्क्ते ॥ ४६३२ ॥ सूत्रम् —
For Private And Personal
सूत्र २०-२१
गाथा ४६२७-४६३३ * नीशिथाध्ययनयोग्यवयः
१७११ (A)