SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org दृष्टान्तात् परिणामयतीति परिणामस्तस्मिन् दृष्टान्तपरिणामके इत्यर्थः । कदाचित् बोधोत्पादानुगुण्येन उत्क्रमेणापि कथ्यते, यथा शस्त्रपरिज्ञायामेके न्द्रियाणां जीवत्वप्रसाधनविधौ पूर्वं प्रथमोद्देशके (पञ्चमोद्देशके) वनस्पतिः कथ्यते, अन्तिमे चोदेशके वायुकायिकः ॥ ४६०५ ॥ तत्र प्रथमत उत्क्रमेण वनस्पतीनां जीवत्वप्रख्यापनार्थमाह दशम उद्देशकः १७०५ (A) Acharya Shri Kailashsagarsuri Gyanmandir पत्तंति पुप्फंति फलं ददंती कालं वियाणंति तहिंदियत्थे । जातीय वुड्डी जरा य जेसिं, कहं न जीवा उ भवंति ते ऊ ? ॥ ४६०६॥ ये पत्रयन्ति पुष्पन्ति पत्राणि मुञ्चन्ति, पुष्पभाजो भवन्ति फलं च ददति, कालं च स्वपत्र-पुष्प-फलनिमित्तं जानन्ति । इन्द्रियार्थांश्च गीतादीन् विजानन्ति, बकुलादीनां तथादर्शनात् । तथा येषां जातिर्वृद्धिर्जरा च ते कथं जीवा न भवन्ति ? भवन्त्येवेति भावः, पुरुषादिधर्माणां सर्वेषामपि तत्रोपलभ्यमानत्वात् । प्रयोगश्च - 'वनस्पतयो जीवाः, जाति-जरावृद्ध्याद्युपेतत्वात्, मनुष्यवत्' ॥ ४६०६ ॥ For Private And Personal गाथा १४६०१-४६०८ चरितकल्पितदृष्टान्तादिः १७०५ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy