SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार . सूत्रम् अष्टम उद्देशकः १३६३ (B)| यस्य खेलः श्लेष्मा प्रस्पन्दते स गुरुन् अनुज्ञापयति- भगवन्! मम भूयान् श्लेष्मा पतति ततोऽन्यदवकाशान्तरमनुजानीत। ततः तस्यान्योऽवकाशो दातव्यः। तथा निवाते घर्मेण पीड्यमानो यदि प्रवातमनुज्ञापयति तर्हि तस्य प्रवातो दातव्यः। प्रवाते वातेन पीड्यमानस्य निवातः । कालग्राही द्वारमूलमनुज्ञापयति, स तत्र स्थाप्यते। ग्लानस्य समीपे प्रतिचारकः, शिक्षाद्वयं ग्राहयिता शैक्षकस्य समीपे। समविषमायां भूमौ यस्य पार्थाणि दुखयतः सोऽध्यास्यायां भूमौ स्थाप्यते । यो यं पुनः पुनः प्रतिपृच्छति स तस्य पार्श्वे । आसंखडिकः स स्वतरकस्य पार्श्वे । एवमनुज्ञापना साधूनां भवति । आचार्येण च शुद्धभावमवगम्य तथैवानुज्ञायते ॥ ३४४४ ॥ उपसंहारमाहएवमणुण्णवणाए, एयं दारं इहं परिसमत्तं । एगंगियादिदारा, एत्तो उद्धं पवक्खामि ॥ ३४४५॥ एवमुक्तप्रकारेण साधूनामनुज्ञापनायां भणितायामेतत् अनुज्ञापनालक्षणं द्वारमिह | १३६३ (B) परिसमाप्तम्, अत ऊर्ध्वं तु एकाङ्गिकादीनि द्वाराणि प्रवक्ष्यामि ॥ ३४४५ ॥ गाथा ३४३८-३४४५ स्थापनाऽनुज्ञापना For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy