SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३४३ (B) कुसमादि अझुषिराई, असंधबीयाई एक्कतो मुहाइ । देसीपोरपमाणा, पडिलेहा तिन्नि वेहासं ॥ ३३७७॥ कुशादीनि कुश-वच्चकप्रभृतीनि तृणानि अझुषिराणि असन्धीनि अबीजानि च भवन्ति, तानि एकमुखानि कर्त्तव्यानि, तत्र भङ्गषोडशकमध्ये यत्र भङ्गे झुषिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः, बीजेषु प्रत्येकेषु पञ्च रात्रिन्दिवानि लघुकानि, अनन्तकायिकेषु गुरुकाणि, शेषेषु भङ्गेषु मासलघु, प्रथमे भङ्गे गृह्णन्तः शुद्धाः, देशीपोरेत्यादि, देशीत्यंगुष्ठोऽभिधीयते तस्य यत् पर्व तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति। इयमत्र भावना- अङ्गुष्ठस्य यत् पर्व तत्राऽङ्गुल्यग्राणि स्थापयित्वा यावद्भिस्तृणैर्मुष्टिरापूर्यते तावन्ति मुष्टिप्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति । एतेषां च तृणानां प्रत्युपेक्षास्तिस्त्रः, तद्यथा- प्रभाते मध्याह्ने अपराहे च। यदा च भिक्षादौ गच्छन्ति तदा विहायसि कुर्वन्ति ॥ ३३७७॥ गाथा ३३७३-३३७७ कारणे ऋतुबद्धेकाले संस्तारकग्रहणविधिः १३४३ (B) साम्प्रतमेतदेव किञ्चिद् व्याचिख्यासुराह For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy