________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १४३७ (A)
अधुना नाम चोयग वयणं' इति व्याख्यानार्थमाहअप्पावड्ढदुभागोमदेसणं नाममेत्तगं नाम। पइदिणमेक्कतीसं, आहारेह त्ति जं भणह ॥ ३६६९ ॥
यदि नाम प्रतिदिनमेकत्रिंशमपि कवलानाहारयेदिति भणथ यूयं प्रतिपादयथ तर्हि | यत् अल्पाऽपार्द्ध-द्विभागावमौदर्यदेशनं तन्नाममात्रकं वचनमात्रकम्, एकत्रिंशतोऽपि कवलानां प्रतिदिवसमाहारानुज्ञानात् ॥ ३६६९॥ अत्राचार्य आह
भण्णति अप्पाहारादयो, समत्थस्सऽभिग्गहविसेसा । चंदायणादयो विव, सुत्तनिवातो पगामम्मि॥ ३६७०॥
भण्यते उत्तरं दीयते, अल्पाहारादयः समर्थस्य सतोऽभिग्रहविशेषाश्चन्द्रायणादय इव। सूत्रनिपातः पुनरन्तिमोऽसमर्थस्य प्रकामे प्रकामनिकामनिषेधपर इत्यदोषः। ये चाल्पाहारा
गाथा ३६६६-३६७२ ऊनोदरताप्रकाराः
१४३७ (A)
For Private and Personal Use Only