SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशक: १४२८ (A) जीविष्यन्ति, यदि वा तत् साधारणं धनमविनष्टं स्याद् यदि वा मां ते वदिष्यन्ति उन्निष्क्राम इति, तदा उन्निष्क्रमिष्यामि, यदि पुनस्ते स्वजना मृता भवेयुस्तद्वा साधारणं विनष्टं, न वा कश्चिन्मां वदेत् निष्क्रामेति तदा पार्श्वस्थादिविहारमभ्युत्थास्यामि' एवं संकल्पं कुर्वन् शङ्की। एवंरूपसंकल्पविकलोऽशङ्की। तत्र शङ्किनि लिङ्गावधाविनि विहारे च विहारावधाविनि एक | एव गमः । किमुक्तं भवति? यत् विहारावधाविन्युक्तं तल्लिङ्गावधाविन्यपि शङ्किनि वक्तव्यमिति॥ ३६४३ ॥ संविग्गमसंविग्गे, संकमसंकाए परिणए विवेको । पडिलेहणनिक्खवणं, अप्पणोऽढाए अन्नेसिं ॥ ३६४४ ॥ स शङ्की अशङ्की वा पथि अनुशिष्यमाणो यदि संविग्ने असंविग्ने वा परिणतो भवति वसति वा तदा तस्योपकरणमुपहतमिति तस्य विवेकः कर्त्तव्यः । अथ स गतश्चिन्तयतिएतदुपकरणं तेषामेव दास्यते मम वा भविष्यति तदा निष्क्रामतोऽनिष्क्रामतो वा उभयकालं प्रतिलेखयतो यतनया निक्षिपतस्तदुपकरणं नोपहन्यते, प्रत्यागच्छन् पुनर्यदि वजिकादिषु सजति तत उपहन्यते। अथ न सजति नोपहन्यते इति गाथासक्षेपार्थः ॥ ३६४४॥ गाथा ३६४४-३६४९ लिङ्गेन अवधाविस्वरूपम् १४२८ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy