________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १४२५ (B)
गजाङ्कशनिभानि । एतया अनुशिष्ट्या अनुशासितो यदि तिष्ठति ततः सुन्दरम्, अथ न तिष्ठति तर्हि यत् खग्गूडेनोपहतमाचारभाण्डं यद्वा असाम्भोगिकेभ्यः समागतस्योपसम्पन्नस्य सम्बन्धि, तत् तस्य दीयते अग्रेतनं तु साम्भोगिकमुपकरणं निवर्त्यते ॥ ३६३५ ॥
संविग्गमसंविग्गे, सारूवियसिद्धपुत्तमणुसट्टे । आगमणं आणयणं, ते वा घेत्तुं न इच्छंती ॥ ३६३६ ॥ दारगाहा। संविग्ना: साम्भोगिकाः असाम्भोगिका वा उद्यतविहारिणः, असंविग्नाः पार्श्वस्था-ऽवसन्नकुशील-संसक्त-यथाछन्दाः सारूपिक-सिद्धपुत्रो नाम मुण्डितशिरष्को रजोहरणरहितोऽलाबुपात्रेण भिक्षामटन् सभार्योऽभार्यो वा। एतैरनुशिष्टस्य यदि आगमनं तत || उपहतोपकरण-स्याऽनुपहतोपकरणस्य वा प्रायश्चित्तदानं, ते वा संविग्नादयो गृहीत्वा तस्याऽऽनयनं ||३६३०-३६३६
अवधाविकुर्वन्ति। अथ स आनयनं नेच्छति तदा वक्ष्यमाणो विधिः, एष गाथासक्षेपार्थः ॥ ३६३६ ॥
स्वरूपादिः साम्प्रतमेनामेव व्याचिख्यासुराह
|१४२५ (B)
गाथा
१. यस्तिष्ठति- सं. ॥ २. अग्रे गा.३६५१ टीकायां सिद्धपुत्रः सकेशः, सारुपिकः मुण्डः इति ॥
For Private and Personal Use Only