SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशक: १४११ (B)|M पात्रमात्रकयोर्मध्ये एक पतद्ग्रहं ददाति तदा द्वितीयस्य हानिरिति येनैव भिक्षामटति तेनैव विचारभूमावपि गच्छतीति लोके जुगुप्साप्रसङ्गतः प्रवचनस्य उड्डाहः, आदिशब्दादाचार्यादयश्च तेन परित्यक्ता इति परिग्रहः। तस्मादफलं सूत्रमनवकशादिति । आचार्यो ब्रवीतिसूत्रनिपातः खल्वयं कारणिकः, किं तत् कारणम् ? इति चेद्, अत आह अतिरेगदुविहकारण, अभिणवगहणे पुराणगहणे य । अभिणवगहणे दुविहे, वावारिय अप्पछंदे य ॥ ३५९६ ॥ द्विविधेन कारणेन द्वाभ्यां कारणाभ्यामतिरेकस्याऽतिरिक्तस्य पतद्ग्रहस्य सम्भवः ।। तद्यथा-अभिनवग्रहणेन पुराणग्रहणेन च । तत्र यत्तदभिनवग्रहणं तद् द्विविधं द्विप्रकारम्, तद्यथा-व्यापारिताश्च गृह्णन्ति आत्मछन्दसा च । गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात्, तच्च द्विविधमप्यभिनवग्रहणमेभिः कारणैर्भवति ॥ ३५९६ ॥ भिन्ने व झामिते वा, पडिणीए तेणसाणमादिहिते । सेहोवसंपयासु य, अभिनवगहणं तु पायस्स ॥ ३५९७ ॥ गाथा ३५९०-३५९७ | निष्कारणं मात्रकपरिभोगनिषेधः १४११ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy