SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः १४०७ (A) येषामेष उपदेशस्तैस्तीर्थकराणामाज्ञा कोपिता: तीर्थकरैः पात्रद्वयस्य प्रत्येकमनुज्ञानात्, तेषां च प्रायश्चित्तं चत्वारो मासा अनुदाता गुरवः। यत इमे वक्ष्यमाणा अनेके दोषा भवन्ति ॥ ३५८१॥ तानेवाहअद्धाणे गेलण्णे, अप्पपरवया य भिन्नमायरिए। आदेसबालवुड्डा, सेहा खमगा य परिचत्ता ॥ ३५८२ ॥ अध्वनि ग्लानत्वे च आत्मा परश्च तैः त्यक्तः। इयमत्र भावना-ये अध्वनिर्गता | विस्मरणतः पतितोपधयः स्तेनापहृतोपधयो वा भिन्नपात्रा वा तद्विषये आत्मा परो वा त्यस्तो भवति, यदि तेषां पात्रं ददाति तदा आत्मा त्यक्तः, पात्राभावे भिक्षाटनासम्भवात्, अथ न ददाति अध्वनिर्गतास्त्यक्ताः । अपि च- बहूनामेकं पात्रमित्युक्तं तत एकेन पात्रेण यदानीतं । न तेन बहवोऽध्वनिर्गता संस्तरेयुः । तथा ग्लानविषयेऽप्यात्मा परो वा त्यक्तः स्यात्, तथाहियदि ग्लानस्य ददाति तत्पात्रं तदाऽऽत्मा त्यक्तः, अथ न ददाति तदा परो ग्लान इति। अन्यच्च अध्वनिर्गतानां ग्लानस्य वा तत्पात्रार्पणे स्वयं कुलालभाण्डं याचनीयं स्यात्, तच्चाऽऽनीतं गाथा ३५७८-३५८३ प्रमाणोने पात्रे दोषाः १४०७ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy