SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् अष्टम उद्देशकः १३८७ (B) अन्तामादीनां मध्ये बहिर्विचारभूमौ विहारभूमौ वा परिष्ठापयति विस्मरति “पम्हटुं ति वा परिट्ठवियं ति वा एगट्ठमिति" वचनात् , प्रायश्चित्तं लघुको मासः। कस्मादीदृशं प्रमादं करोतीति हेतोः, कः पुनर्दोषो यदि विस्मृतम् ? अत आह-अन्यतरत् जघन्यं मध्यममुत्कृष्टं वा उपकरणं दृष्टं ततो जाता शङ्का, शङ्कातश्च न केचनापि ग्रहीष्यन्ति । शङ्कामेव स्पष्टतरां भावयति- किं होज्जेत्यादि, साधवस्तदन्यतरद् उपकरणमन्तर्बहिर्वा दृष्ट्वा शङ्कन्तेकिमेतत् परिष्ठापितमुत कस्यापि विस्मृतं भवेत् ? एवं शङ्कमानास्तदुपकरणं विस्मृतं न गृह्णन्ति, यतो गृह्णन्नपि जनैः शक्यते, तथाहि- तत् पतितं गृह्णन्तं संयतं कोऽपि दृष्ट्वा शङ्केतकिमेतस्य अन्यस्य वा? किमुक्तं भवति? किमात्मीयं पतितं गृह्णाति किं वा परकीयं कस्य अपि दानार्थम्? एवं शङ्कासम्भवे तस्य प्रायश्चित्तं चत्वारो लघुकाः, अथ नि:शङ्कितं परेषां | सूत्र १५ स्यात् तदा चतुर्गुरुकम्। एवं शङ्कासम्भवतो न गृह्णन्ति ॥ ३५१८॥ ३५१९॥ गाथा ३५१६-३५२० तस्मिंश्चागृह्यमाणे इमे दोषा: विस्मृतोथिग्गलधुत्ता पोत्ते, बालगचीराइएहिं अहिगरणं । ^पकरणे विधिः बहुदोसतमा कप्पा, परिहाणी जा विणा तं च ॥ ३५२०॥ ४१३८७ (B) १. परिस्थाप० पु. प्रे.। एवमन्यत्रापि अनेकस्थानेषु ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy