SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३८२ (A) शालादीनि तथा देवकुलं गोष्ठिकादीनां वा गृहाणि यत्र गोष्ठिकादयः समवायं कुर्वन्ति तानि दत्तविचाराणि भवन्ति, अदत्तविचाराणि गृह्यन्ते, तेषु कोष्ठागारादिषु यत्र येषु तृण-फलकानि रक्ष्यन्ते तथाहि-प्रतीतमेतत् कोष्ठागारादिषु मा कोऽपि किमपि हार्षीदिति प्राहरिकमोचनेन तृणानि | फलकानि धान्यानि च प्रयत्नेन रक्ष्यन्ते तत्र तेष्वननुज्ञातेषु साधवो न तिष्ठन्ति ॥ ३५०३ ॥ किमर्थम्? इति चेदत आहदोसाण रक्खणट्ठा, चोएइ निरत्थयं ततो सुत्तं । गाथा भण्णइ कारणियं खलु, इमे य ते कारणा होति ॥ ३५०४ ॥ ३५०४-३५१० कारणे दोषाणां प्रायश्चित्तप्रसङ्गतो भङ्गादिरूपाणां रक्षणार्थं रक्षणाय तत्र न तिष्ठन्ति, अत्र पूर्वमग्रहः परश्चोदयति -यद्येवं ततः सूत्रम् "इह खलु निग्गंथाण वा निग्गंथीण वा नो सुलभे पाडिहारिए" || पाश्चात् इत्यादि निरर्थकम्, अविषयत्वात्, सूत्रे हि अनुज्ञापनमन्तरेणापि पूर्वमवग्रहग्रहणमनुज्ञातमिति। अनुज्ञापना सूरिराह भण्यते उत्तरं दीयते- इदं खलु सूत्रं कारणिकं कारणैर्निर्वृत्तं तानि च कारणानि १३८२ (A) इमानि वक्ष्यमाणलक्षणानि भवन्ति ॥ ३५०४॥ तान्येवाह For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy