SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३८१ (B) जावंतियदोसा वा, अदत्तनिच्छुभण दिवसरातो वा । एए दोसे पावइ, दिनवियारे वि ठायंतो ॥ ३५०२॥ अननुज्ञाते दत्तविचारेऽपि यदि तिष्ठति तदा यावन्तिकदोषाः तथा अदत्तेति, अदत्तादान-ग्रहणदोषश्चोपजायते, तथा कदाचित् स सभादिस्वामी प्रान्तो ब्रूयात्- केनामीषामत्र स्थानं दत्तं? न ह्यमीषां योग्यमिति, ततो रुष्टस्सन् दिवसे रात्रौ वा निष्काशनं कुर्यात्, यस्मात् दत्तविचारेऽप्येवमननुज्ञाप्य तिष्ठन् एतान् दोषान् प्राप्नोति तस्मात् तत्रापि पूर्वमनुज्ञाप्य पश्चात् कल्पते स्थातुम्, एवं सति यावन्तिकदोषो न भवति, स्वामिसत्कं कृत्वा तदनुज्ञापनाददत्तादानं निष्काशनं च न भवति ॥ ३५०२ ।। किंतु अदिनवियारे, कोट्ठारादीसु जत्थ तणफलगा । रक्खिजंते तहियं, अणणुनाए न ठायंति ॥ ३५०३ ॥ आस्तां दत्तविचारे अनुज्ञापनमन्तरेण न तिष्ठन्ति प्रागुक्तदोषसम्भवात्, किन्तु अदत्तविचारे | ष्वपि गाथायामेकवचनमपिशब्दलोपश्चाऽऽर्षत्वात् , न दत्तो विचार: प्रवेशो यत्र तान्यदत्तविचाराणि | तेष्वपि, केष्वित्याह-कोष्ठागारादिषु कोष्ठागारं धान्यस्य तृणादीनां वा, आदिशब्दाच्चतुः गाथा ३४९९-३५०३ अनुज्ञापना कार्या |१३८१ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy